पूर्वम्: ४।१।८४
अनन्तरम्: ४।१।८६
 
सूत्रम्
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॥ ४।१।८५
काशिका-वृत्तिः
दित्यदित्यादित्यपत्युत्तरपदाण् ण्यः ४।१।८५

प्राग्दीव्यतः इत्येव। दिति अदिति आदित्य इत्येतेभ्यः, पत्युत्तरपदात् च प्रातिपदिकात् प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति। दैत्यः। आदित्यः। आदित्यम्। पत्युत्तरपदात् प्राजापत्यम्। सैनापत्यम्। यमाच्चेति वक्तव्यम्। याम्यम्। वाङ्मतिपितृमतां छन्दस्युपसंख्यानम्। वाच्यः। मात्या। पैतृमत्यम्। पृथिव्या ञाञौ। पार्थिवा। पार्थिवी। देवाद् यञञौ। दैव्यम्। दैवम्। बहिषष्टिलोपश्च। बाह्याः। ईकक् च। वाहीकः। ईकञ् छन्दसि। बाहीकः। स्वरे विशेषः। टिलोपवचनम् अव्ययानां भमात्रे टिलोपस्य अनित्यत्वज्ञापनार्थम्। आरातीयः। स्थाम्नो ऽकारः। अश्वत्थामः। लोम्नो ऽपत्येषु बहुषु। उडुलोमाः। शरलोमाः। बहुषु इति किम्? औडुलोमिः। शारलोमिः। सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्। गव्यम्। अजादिप्रत्ययप्रसङ्गे इति किम्? गोभ्यो हेतुभ्य आगतं गोरूप्यम्। गोमयम्। ण्यादयो ऽर्थविशेषलक्षणादपवादात् पूर्वविप्रतिषेधेन। दितेरपत्यं दैत्यः। वनस्पतीनां समूहः वानस्पत्यम्। कथं दैतेयः? दितिशब्दात् कृदिकारादक्तिनः, सर्वतो ऽक्तिन्नर्थादित्येके इति ङीषं कृत्वा स्त्रीभ्यो ढक् क्रियते। लिङ्गविशिष्टपरिभाषा च अनित्या।
लघु-सिद्धान्त-कौमुदी
हलो यमां यमि लोपः १००३, ४।१।८५

हलः परस्य यमो लोपः स्याद् वा यमि। इति यलोपः। आदित्यः। प्राजापत्यः। (देवाद्यञञौ)। दैव्यम्। दैवम्। (बहिषष्टिलोपो यञ्च)। बाह्यः (ईकक्च)॥
न्यासः
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। , ४।१।८५

"पत्त्युत्तरपदाच्च" इति। एतेनोत्तरपदशब्दः पतिशब्देनैव सम्बध्यते, नान्यैर्दित्यादिभिरिति दर्शयति। एतच्च प्रत्यासत्तेव्र्याख्यानाद्वा लभ्यते। "यमाच्चेति वक्तव्यम्" इत। यमशब्दाच्च ण्यप्रत्ययो भवीत्येतदर्थरूपं व्याख्येयम्। तत्रेयं व्याख्या-- इह लाघवार्थं पत्यन्तादिति वक्तव्ये पत्युत्तरपदादित वचनमधिकविधानार्थम् । ग्रन्थाधिक्यादर्थाविषयं भवतीति। तेन यमशब्दादपि ण्यो भविष्यतीति। अथ वा-- पूर्वसत्राच्चकारोऽनुवत्र्तते,तस्मादनुक्तसमुच्चतयार्थत्वाद्भविष्यतीति। "वाङमतिपितृमताम्" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु तदेव ग्रन्थाधिक्यादर्थाधिक्यमाश्रित्य चकारस्यानुक्तसमुच्चयार्थस्यानुवृत्तेर्वा कत्र्तव्यम्। याम्यमित्यादिषु यथायोगं प्राग्दीव्यतीयेपत्यादावर्थे ण्यप्रत्ययः। "पृथिव्या ञाञौ" इति। एते ञादयः-- "तद्धिताः" (४।१।७६) इति बहुवचनेनानुक्ततद्धितपरिग्रहार्थेन सिद्ध्यन्तीति न वक्तव्याः। तत्र पृथिवीशब्दाद्यदा ञस्तदा टाप्-- पार्थिवा, यदा त्वञ् तदा "टिड्ढाणञ्" ४।१।१५ इति ङीप्--पार्थिवी। "बहिषष्टिलोपश्च" इत्यादि। ननु च "अव्ययानां भमात्रे टिलोपः सायंप्रातिकाद्यर्थः" (वा।८०२) इत्येनैव टिलोपसिद्धिः, तत्किमर्थं पुनरुच्यते? इत्यत आह-- "टिलोपपवचनम्" इत्यादि। "आरातीयः" इति। अनित्यत्वाज्ञापनस्य प्रयोजनम्। आराद्भवतीति "वृद्धाच्छः" ४।२।११३। "स्थाम्नोऽकारः"(इति)। स्थामन्शब्दस्य केवलस्यापत्यार्थे प्रयोगो नास्तीति तदन्तस्याकारप्रत्ययो विज्ञेयः। अ()आस्येव स्थामास्येत्य()आत्वामा, पृषोदादित्वात् सकारस्य तकारः। अ()आत्थाम्नोऽपत्यम()आत्थामः, "नस्तद्धिते" ६।४।१४४ इति टिलोपः। "लोम्नोऽपत्ये" इति। लोमशब्दो बाह्वादिषु पठ()ते, तस्य केवलस्यापत्येन सम्बन्धो नास्तीति तदन्तविदिर्विज्ञायते। अत्रापत्यविवक्षायां बहुष्विञि प्राप्ते तदपवाद एवाकारो विधीयेते। उडुलोम्नोऽपत्यानि बहून्युडुलोमाः। "सर्वत्र" इति। अपत्ये च अन्यत्र च।अथ वा-- प्राग्दीव्यतीये चान्यत्र चार्थेऽजादिप्रत्ययप्रसङ्गं इति। अजादेः प्रत्ययस्य प्रसङ्गः = प्राप्तिः। तत्र गोशब्दात् सर्वत्र यद् भवति। यद्येवम्, "उगवादिभ्यो यत्" (५।१।२) इत्यत्र गोग्रहणं किमर्थम्? अस्यैव प्रपञ्चार्थम्। "गव्यम्" इति। गोरपत्यम्, गवा चरतीति वा। अणष्ठको वाऽजादेर्यत्रार्थे प्रसङ्गस्तत्र यद्भवति, नान्यत्र। "गोरूप्यम्, गोमयम्" इति। "हेतुमनु,()येभ्योऽन्यतरस्यां रूप्यः" ४।३।८१, "मयट् च" ४।३।८२। "ण्यादयः" इत्यादि। लक्षमशब्दो निमित्तवचनः,चिह्नवचनो वा। अर्थविशेषो लक्षणं यस्य सोऽर्थविशेषलक्षणोऽणपवादः। तस्मात् पूर्वविप्रतिषेधेन ण्यादयो भवन्ति। न चेदं वक्तव्यम्; परशब्दस्येष्टवाचित्वात् तेनैव सिद्धत्वात्। आदिशब्देन "उत्सादिभ्योऽञ्" ४।१।८६ इत्येवमादयः प्रत्यया गृह्रन्ते। तत्र ण्यस्यावकाशः भवति-- दैत्यः, वानस्पत्यमिति। ण्यश्चायं सर्वेष्वपत्यादिष्वर्थेषु विधीयत इति सामान्यप्रत्ययो भवतीति, अतो नार्थविशेषलक्षणः। अर्थविशेषलक्षमस्याणपवादस्यावकाशः-- दुलेरपत्यमिति "इतश्चानिञःट ४।१।१२२ इति ढक्-- दौलेयः, ढगयमपत्य एवार्थवेशेषे विधीयत इत्यर्थविशेषलक्षणो भवति। इहोभयं प्राप्नोति-- दितेरपत्यं दैत्यः, वनस्पतीनां समूहो वानस्पत्यमिति वा, ण्यप्रत्ययो भवति पूर्वविप्रतिषेधेन। अर्थविशेषलक्षणादिति किम्? योऽणपवादोऽर्थसामान्येनार्थविशेषे विहितः स परत्वाण्ण्यादीन् बाधित्वा भवत्येव। उष्ट्रपतिर्नाम पत्त्रम्। तस्योष्ट्रपतेरिदमिति तस्येदं विवक्षायाम् "पत्त्राध्वर्युपरिषदश्च" ४।३।१३१ इत्यञ्-- औष्ट्रपत्यम्, तस्येदंलक्षणो ह्रयमञणोऽपवादः, न योऽर्थविशेषलक्षणस्तस्य। अर्थविशेषा ह्रपत्यादयोऽर्थाः। तस्येदमर्थस्तु सामान्यम्, नार्थविशेषः। "कथं वैतेयः"इति। यदि ण्यादयोऽर्थविशेषलक्षणादणपवादात् पूर्वविप्रतिषेधन भवन्ति, दैतेय इति न सिध्यति। अत्रापि हि ण्यप्रत्ययेनैव भवितव्यमिति भावः। "दितिशब्दात्" इत्यादि। दितिशब्दोऽयं "दो अवखण्डने" (धा।पा।११४८) इत्यस्मात् "क्तिच्क्तौ" ३।३।१७४ इति क्तिच्, "द्यतिस्यति" ७।४।४० इत्यादिनेत्त्वमित्येवं यदा व्युत्पाद्यते तदा "कृदिकारादक्तिनः" (ग।सू।५०) इति ङीष्। अथाव्युत्पन्नं प्रातिपदिकं तदा "सर्वतोऽक्तिन्नर्थादित्येके" (ग।सू।५१) इति। ननु "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति" (व्या।प।२९) इति दितिशब्दो गृह्रमाणो दितीशब्दमपि ग्राहयति, ततश्च यथा दितिशब्दाण्ण्यप्रत्ययः पूर्वविप्रतिषेधेन भवति, तथा दितीशब्दादपि तेन भवितव्यमित्यत आह--"लिङ्गविशिष्टपरिभाषाऽनित्या" इति। अनित्यत्वं पुनरस्याः "अच्प्रकरणे शक्तिलाङ्गलांकुशयष्टितोमरघटघटीधनुःषु ग्रहेरुपपसंख्यानम्" (वा।२३५) इति घटशब्दोच्चोरणाद्वेदितव्यम्॥
तत्त्व-बोधिनी
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ८८७, ४।१।८५

दित्यदित्या। पतिशब्दस्योत्तरपदशब्देन बहुव्रीहि कृत्वा पश्चद्द्वन्दः कार्यो, न तु द्वन्द्वोत्तरं बहुव्रीहिरित्याह--पत्युत्तरपदाच्चेति। "पत्यन्ता दुत्युच्यनाने बह्वच्पूर्वादपि स्यादित्युत्तरपदग्रहणं कृतम्। दैत्य इति। ननु दितेर्देवताद्यर्थेण्यः सावकाशः, "इतश्चानिञः"इत्यपत्ये ढक् दौलैय इत्यादौ सावकाशः, तथा च दितेरपत्यमित्यत्रोभयप्रसङ्गे परत्वाल्लुक्स्यात्। मैवम्। "ण्यादयोऽर्थविशेषलक्षणादणपबादात्पूर्वविप्रतिषिद्ध"मिति भाष्ये पूर्वविप्रतिषेधाश्रयणात्। अर्थविशेषे इति किम् ()। औष्ट्रपतम्। उष्ट्रपतिर्नाम पत्रम्। "तस्येदम्" "पत्राध्वर्युपरिपदश्चे"त्यञ्। इह पूर्वविप्रतिषेधेन "तस्येद"मित्यर्थे ण्यो न भवति, इदमित्यस्य सामान्यार्थत्वात्। कथं तर्हि "दैतेयः"इति?। अत्राहु---"कृदिकारा"दिति ङीषन्तात् "स्त्रीभियो ढत्"। ण्यस्तु न भवति, लिङ्गविशिष्टपरिभाषाया अनित्यत्वात्। न च "अन्तादिवच्चे"ति पूर्वस्यान्तवद्भावेन स्यादेव ण्य इति भ्रमितव्यम्। दितिशब्दान्ङीषि कृते "यस्येति चे"ति लोपेन सवर्णदीर्घाऽभावा"दिति। आदित्यशब्दाण्ण्यप्रत्यये "यस्ये"ति लोपे "हलो यमा"मिति पाक्षिको यलोपः। न चाल्लोपस्य स्तानिवत्त्वं, यलोपे "न पादन्ते"ति तन्निषेधात्, "पूर्वत्रासिद्धे न स्थानिव"दित्युक्तेश्च। काशिकायामिति। भाष्ये तु न दृष्टमिति भावः। अणन्तात्स्वार्थिकेन ष्यञा प्रयोगः सूपपादः। स्त्रियां ङीष्न भवति, षितां ङीषोऽनित्यत्वात्।

पृथिव्या ञाऽञौ। ञाऽञोः फलभेदज्ञापनाय स्त्रीलिङ्गमुदाहरति--पार्थिबा। पार्थिवीति।

बहिषष्टिलोपो यञ्च। बहिष इति। टिलोपवचनम् "अव्ययानां भमात्रे" इत्य्स्याऽनित्यतां ज्ञापयितुम्। तेन "आरातीय"इति सिद्ध्म्।

स्थाम्नोऽकारः। अ()आत्थमेति। भाष्येदाहरणात्तदन्तविधिः। न च बलवाचिनः स्थामन्शब्दस्यापत्येन योगाऽसंभवाद्वचनारम्भसामथ्र्यात्तदन्तविधिः स्यादिति वाच्यं, जाताद्यर्थे तत्संभवेन सामर्थ्योपक्षयात्। अ()आस्येव स्थाम यस्येति बहुव्रीहिः।

लोम्नोऽपत्येषु बहुषु। उडुलोम इति। उडूनि नक्षत्राणीव लोमान्यस्येति विग्रहः। केवलस्यापत्येन योगाऽभावात्तदन्तविधिस्ततोऽकारष्टिलोपः।

[सर्वत्र]गोरजादिप्रसङ्गेयत्। गोरिति। न केवलमपत्य एवायं, किं तु प्राग्दीव्यतीयेषु सर्वेष्वर्थेष्विति ज्ञेयम्। गव्यमिति। गवि भवं, गौर्देवता अस्य, गोरिदमित्यादिरर्थः। केचित्तु भाष्ये सर्वग्रहणात्प्राग्दीव्यतीयेभ्योऽन्यस्मिन्नर्थेप्ययं यत्। तेन गवा चरति गब्य इत्याद्यपि भवतीतच्याहुः। गोरुष्यमित्यादि। "हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः" "मयट् चे"ति रूप्यमयटौ।