सूत्रम्
टाबृचि॥ ४।१।९
काशिका-वृत्तिः
टाबृचि ४।१।९
पादः इत्येव। ऋचि इत्यभिधेयनिर्देशः। ऋचि वाच्यायां पादन्तात् प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। ङीपो ऽपवादः। द्विपदा ऋक्। त्रिपदा ऋक्। चतुष्पदा ऋक्। ऋचि इति किम्? द्विपदी देवदत्ता।
न्यासः
टाबृचि। , ४।१।९
"ऋचीत्यभिधेयनिर्देशः" इति। विषयनिर्देशाशङ्कां निराकरोति। यदि हि विषयनिर्देशः स्यात्, तत ऋचि विषय ऋग्ग्रन्थे यः पाच्छब्दस्तदन्तात् प्रातिपदिकाट्टाब्भविष्यतीत्येषोऽर्थः स्यात्, तथा च ऋग्वेद एव स्यात्, नान्यत्र। अभिधेयनिर्देशे तु सर्वत्र भवतीति भावः॥
बाल-मनोरमा
टाबृचि ४५२, ४।१।९
टाबृचि। पादन्तादिति। "प्रातिपदिका"दिति शेषः। "पादोऽन्यतरस्या"मित्यतोऽनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः। "पादोऽन्यतरस्या"मिति ङीपोऽपवादोऽयम्। द्विपदा ऋगिति। द्वौ पादौ यस्या इति विग्रहः। एकपदेति। एकः पाटो यस्या इति विग्रहः। उभयत्रापि टापि, "पादः पत्"। "ङ्याप्प्रातिपदिकात्" इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दमवष्टभ्य प्रत्याख्यातमेतत्। नच ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्त्ये एतत्सूत्रमिति वाच्यम्, एतद्भाष्यप्रामाण्येन तथाविधप्रयोगस्याऽपीष्टत्वादित्यसम्। न षडिति। इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम्। पञ्चेति। इहान्तरङ्गत्वान्नन्तलक्षणङीपि प्राप्ते षट्त्वान्निषिद्धे "षड्भ्यो लुक्" इति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत्। नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वसंज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात्। ननु "न षट्स्वरुआआदिभ्यः" इति न टाबित्यन्वयः। "अदन्तलक्षणष्टा"बिति शेषः। नान्तलक्षणङीपि प्रतिषिद्दे सति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत्। नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वस्संज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात्। ननु "न षट्स्वरुआआदिभ्यः" इत्यत्र सत्यामपि टाबनुवृत्तौ कथमिह षट्संज्ञानिबन्धस्तन्निषेधः, नलोपे कृते षट्संज्ञाविरहात्। नच टाब्निषेधे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं, टाब्निषेधस्य सुप्स्वरसंज्ञातुग्विधिष्वनन्तर्भावादित्यत आह--नलोपे कृतेऽपीत्याद्यसिद्धत्वादित्यन्तम्। टाब्निषेधविधिरयं षट्संज्ञामपि विधत्ते, कार्यकालपक्षाश्रयणात्। ततश्च तस्मिन् कर्तव्ये नवोपस्याऽसिद्धत्वेन षट्संज्ञाया निर्बाधतया षट्संज्ञानिबन्धनष्टाप्प्रतिषेधोऽत्र निर्बाध इति बावः। वस्तुतस्तु नलोपस्याऽसिद्धत्वेऽपि बूतपूर्वषट्संज्ञामाश्रित्य टाब्निषेध उपपद्यते। अत एव षट्संज्ञायां नलोपाऽसिद्धत्वस्य न फलमिति "नलोपः सुप्स्वरे"ति सूत्रभाष्ये उक्तमित्याहुः।
तत्त्व-बोधिनी
टाबृचि ४०७, ४।१।९
टाबृचि। पूर्वेण प्राप्तस्य ङीपोऽपवादः। यद्यपि "पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु"इति कोशात्पादसमानार्थकः पदशब्दोऽस्तीति तेनैव "द्विपदा""एकपदे"ति रूपं सिध्यति, तथापि ऋचि वाच्यायां "द्विपदी""द्विपा"दिति प्रयोगनिवृत्तये सूत्रारम्भोऽयमावश्यकः। असिद्धत्वादिति। एतच्चाऽसिद्धत्वेपवर्णनं कार्यकालपक्ष एवोपयुज्यते, न तु यथोद्देशपक्षे, सकृत्कृतायाः संज्ञायाः सर्वार्थत्वेन तस्याः पुनरपक्षाऽभावात्। न च"पञ्च"न्निति नान्तस्य कृतायामपि संज्ञायां "पञ्चे"त्यदन्तस्य न कृतेति शङ्क्यम्, एकदेशविकृतस्याऽनन्यत्वादित्याहुः। तदसत्। एकदेशविकृतस्योपसङ्ख्यानं हि "स्थानिवदादेशोऽनल्विधा"वित्यत्र पठ()ते, तच्चाऽल्विधौ न प्रवर्तत एवेति यथोद्देशपक्षेऽप्यसिद्धत्ववर्णनस्य युक्तत्वात्।