पूर्वम्: ४।१।७
अनन्तरम्: ४।१।९
 
सूत्रम्
पादोऽन्यतरस्याम्॥ ४।१।८
काशिका-वृत्तिः
पादो ऽन्यतरस्याम् ४।१।८

पादः इति कृतसमासान्तः पादशब्दो निर्दिश्यते। पादन्तात् प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप् प्रत्ययो भवति। द्विपात्, द्विपदी। त्रिपात्। त्रिपदी। चतुष्पाद्, चतुष्पदी।
न्यासः
पादोऽन्यतरस्याम्। , ४।१।८

"पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यते" इति। अथ "पद गतौ" (धा।पा।११६९) इत्यस्माण्ण्यन्तात् "अन्येभ्योऽपि दृश्यते" (३।२।१७८) इति क्विपि कृते यत् पादिति रूपं निष्पद्यते रूपं निष्पद्यते तस्य ग्रहणं कस्मान्न विज्ञायते? विज्ञायते यदि पादयतेः क्विब् दृश्येत्, स तु न दृश्यते; अनभिधानात्। "द्विपात्, द्विपदी" इति। द्वौ पादादस्या इति बहुव्रीहिः। "पादस्य लोपः" ५।४।१३८ इत्यनुवत्र्तमाने "संख्यासुपूर्वस्य" ५।४।१४० इत्यकारलोपः, "पादः पत्" ६।४।१३० इति पद्भावः॥
बाल-मनोरमा
पादोऽन्यतरस्याम् ४५१, ४।१।८

पादो। कृतसमासान्त इति। अन्तलोपात्मके समासान्ते कृते परिशिष्टः पाच्छशब्द इह गृह्रत इत्यर्थः। तदन्तादिति। पाच्छब्दान्तादित्यर्थः। "पाद" इति पञ्चम्यन्तेन "प्रातिपदिका"दित्यधिकृतस्य विशेषणादिति भावः। ङीब्वा स्यादिति। "ऋन्नेभ्यः" इत्यतस्तदनुवृत्तेरिति भावः। द्विपदीति। द्वौ पादौ यस्या इति बहुव्रीहिः। "सङ्ख्यासुपूर्वस्ये"ति पादशब्दान्तस्याऽकारस्य लोपः। ङीपि भत्वात् "पादः पत्"। द्विपदिति रूपम्। ङीबभावे तुद्विपादिति।

तत्त्व-बोधिनी
पादोऽन्यतरस्याम् ४०६, ४।१।८

द्विपादिति। द्वौ पादौ यस्या इति बहुव्रीहौ "बहुधीवरीति। "बहवो धीवानो यस्यां नगर्या"मिति विग्रहः। पक्षे डाबिति। "डाबुभाभ्या"मिति सूत्रेण। तथाच द्विवचने "बहुधीवर्यौ""बहुधीवानौ""बहुधीवे"इति रुपत्रयं भवतीति भावः।