पूर्वम्: ४।१।९५
अनन्तरम्: ४।१।९७
 
सूत्रम्
बाह्वादिभ्यश्च॥ ४।१।९६
काशिका-वृत्तिः
बाह्वादिभ्यश् च ४।१।९६

बाहु इत्येवम् आदिभ्यः शब्देभ्यो ऽपत्ये इञ् प्रत्ययो भवति। बाहविः। औपबाहविः। अनकारार्थ आरम्भः। क्वचिद् बाधकवाधनार्थः। बाहु। उपबाहु। विवाकु। शिवाकु। बटाकु। उपबिन्दु। वृक। चूडाला। मूषिका। बलाका। भगला। छगला। घ्रुवका। धुवका। सुमित्रा। दुर्मित्रा। पुष्करसत्। अनुहरत्। देवशर्मन्। अग्निशर्मन्। कुनामन्। सुनामन्। पञ्चन्। सप्तन्। अष्टन्। अमितौजसः सलोपश्च। उदञ्चु। शिरस्। शराविन्। क्षेमवृद्धिन्। शृङ्खलातोदिन्। खरनादिन्। नगरमर्दिन्। प्राकारमर्दिन्। लोमन्। अजीगर्त। कृष्ण। सलक। युधिष्ठिर। अर्जुन। साम्ब। गद। प्रद्युम्न। राम। उदङ्कः संज्ञायाम्। अम्भूयो ऽम्भसोः सलोपश्च। बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततो ऽन्यत्र तेषां प्रतिषेधः। बाहुर्नाम कश्चित्, तस्य अपत्यं बाहवः। सम्बन्धिशब्दानां च तत्सदृशात् प्रतिषेधः। संज्ञा श्वशुरस्य अपत्यं श्वाशुरिः। चकारो ऽनुक्तसमुच्चयार्थः आकृतिगणतामस्य बोधयति। जाम्बिः। ऐन्द्रशर्मिः। आजधेनविः। आजबन्धविः। औडुलोमिः।
लघु-सिद्धान्त-कौमुदी
बाह्वादिभ्यश्च १०१८, ४।१।९६

बाहविः। औडुलोमिः। (लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः)। उडुलोमाः। आकृतिगणोऽयम्॥
न्यासः
बाह्वादिभ्यश्च। , ४।१।९६

"बाहविः" इति। "ओर्गुणः" ६।४।१४६। "क्वचित्" इति। अजीगत्र्ताविष्कारान्तेषु। बाहुप्रभृतीनां वटाकुपर्यन्तानामनकारान्तत्वात् प्राप्त्यर्थः पाठः। चूडाशब्दस्य च "द्वय चः" ४।१।१२१ इति ढकि प्राप्ते। वृकलादीनां प्राक् पुष्करसच्छब्दात् "अवृद्धाभ्यो नदीमानुषीभ्यः" ४।१।११३ इत्यणि प्राप्ते। पुष्करसदित्येवमादीनां लोमशब्दपर्यन्तानां प्राप्त्यर्थः, अनकारान्तत्वात्। "अमितौजसः सलोपश्च" इति। अमितौजस्शब्दादिञ् भवति, सलोपश्च। आमितौजिः। उदञ्च्विति पठ()ते, तत्राञ्चतेर्धातोश्चकारो वेदितव्यः। नायं पुनरकारान्तः, किं तर्हि? क्विन्नन्तः, प्रत्ययवेलायां निपातनादनुनासकिलोपो न भवति। उदीचोऽपत्यमौदञ्चिः। शिरः शब्दस्तदन्तविधिं प्रयोजयति, केवलस्य नपुंसकस्यापत्येन सम्बन्धाभावात्। हस्तिशिरसोऽपत्यं हास्तिशीर्षिः, "ये च तद्धिते" ६।१।६० इत्यत्र चकारस्यानुक्तसमुच्चलोम्नोऽपत्यम्-- औध्र्वलोमिः। अजीगत्र्तादीनां प्रागुदङ्कशब्दात् "ऋष्यन्धकवृष्णि" ४।१।११४ इत्यादिनाणिबाधके प्राप्ते। "उदङ्कः संज्ञायाम्" इति। उदङ्को नाम कश्चित्, तस्यापत्यमौदङ्किः। "सम्भूयोऽम्भसोः सलोपश्च" (इति)। सम्भूयस्, अम्भसित्येतयोरिञ् भवति, सकारलोपश्च-- साम्भूयिः,आम्भिः। "बाह्वादिप्रभृतिषु" इति। प्रभृतिशब्देनेत ऊध्र्वं ये वक्ष्यन्ते ते परिगृह्रन्ते। "येषां दर्शनं गोत्रभावे लौकिके" इति। दर्शनं = प्रसिद्धिः। लौकिके गोत्रे भावः = संज्ञाकारित्वम्। येषां लौकिकगोत्रभावे प्रसिद्धिस्तेषां बाह्वादिषु परिग्रहो द्रष्टव्यः। "ततोऽन्यत्र तेषां प्रतिषेधः" इति। येषां लौकिके गोत्रभावे न दर्शनमपि तु ततोऽन्यत्र दर्शनम्, तेषां प्रतिषेधो वेदितव्यः। तेन बाहुर्नाम कश्चिदादिपुरुषो यः संज्ञाकारित्वेन प्रसिद्धो यदपत्यसन्तानान्तः पातिनः पुमांसो बाहुव्यपदेशमासादयन्ति, तत एवेञ् भवति। यस्त्विदालीन्तनो बाहुर्नाम कश्चित् ततोऽणेव भवति-- बाहव इति। एतच्च वेत्यनुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्चलभ्यते। सम्बन्धिशब्दानाञ्च ()आशुरादीनाञ्च यत्कार्यमुच्यते तस्य तत्सादृश्यात् प्रतिषेधो भवति। अत्रापि पूर्वोक्त एव हेतुर्वेदितव्यः। राज()आशुराद्यत्" ४।१।१३७ इति ()आशुरशब्दाद्यत्प्रत्ययः सम्बन्धिशब्दादेव भवति, न संज्ञाशब्दात्। तेन ()आशुरो नाम कश्चित्, तस्यापत्यं ()आआशुरितीञेव भवति। "संज्ञा()आशुरस्य" इति। संज्ञया यः ()आशुरः, न सम्बन्धेन स संज्ञा()आशुरः॥
बाल-मनोरमा
बाह्वादिभ्यश्च १०८०, ४।१।९६

बाह्वादिभ्यश्च। "अपत्ये इ"ञिति शेषः। बाहविरिति। बाहुर्नाम कश्चिदृषिः, अथ "ऋषयः" इत्यधिकृत्य"बाहविर्गाग्र्यगौतमौ" इत्या()आलायनसूत्रे दर्शनात्। बाहोरपत्यमिति विग्रहः। इञि ओर्गुणः। औडुलोमिरिति। उडुलोम्नोऽपत्यमिति विग्रहः। इञि "नस्तद्धिते" इति टिलोपः। आदिवृद्धिः, अदन्तात्वाऽभावादप्राप्तिः।

तत्त्व-बोधिनी
बाह्वादिभ्यश्च ९०४, ४।१।९६

बाह्वदिभ्यश्च। "बाधृ लोडने"इति धातौ "केवलस्य बाहोरपत्ययोगाऽसंभवात्सामथ्र्यात्तदन्तविधौ सौबाहविः" इति माधवोक्तं चिन्त्यमिति ध्वनयन्नाह---बाहविरिति। "जानन्तिबाहविगाग्र्यगौतमा" इत्या()आलायनसूत्रप्रयोगाद्भाष्यवृत्त्याद्युदाहरणाच्च बाहुशब्दः संज्ञारूपोऽस्तीति भावः। औडुलोमिरिति। यद्यपि गणे बाहु कृष्ण युधिष्ठिर अर्जुन प्रद्युम्नेत्यादिषु केवलो लोमन्शब्दः पठितस्तथापि सामथ्र्यात्तदन्तग्रहणम्। "तारकाप्युडु वा स्त्रियाम्" इत्यमरोक्त्या नक्षत्रवाच्युडुशब्दः। उडूनीव लोमानि यस्य तस्यापत्यमौडुलोमिः। शरा इव लोमानि यस्य तस्यापत्यं शारोमिः। बहुत्वे तु इञपवादोऽकारः प्रागेवाऽजन्तेषूक्तः। उडुलोमाः। शरलोमाः। इह प्रतिपदविधानेषु पुराणसिद्धाः संज्ञाशब्दा एव गृह्रन्ते, शीघ्रोपस्थितिकत्वात्। तेन इदानीतनो यो बाहुस्तस्यापत्ये बाहव इत्यणेव, न त्विञ्। उक्तं च हरिणा---"अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु"। अनर्थकं संदिग्धार्थकमप्रयुक्तं च क्रमेण विशेषणत्रयव्यावर्त्त्यम्। तदुक्तिषु। तत्सदृशेष्वित्यर्थः। अत एव संज्ञा()आशुरस्यापत्यं ()आआशुरिरित्यत्र "राजा()आशुरा"दिति यन्न। मिमीते माता। तस्य स्वसा मातृस्वसा। इह "मातृपितृभ्यां स्वसे"ति षत्वं न। नन्वेवं बाहवः ()आआशुररिरिति पूर्वोक्तौ न सिद्द्यति इति चेत्। मैवम्। अणिञोर्विघौ शब्दविशेषानुपादानादप्रसिद्धेष्वपि तत्प्रवृत्तेः।

व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम्। व्यासेति। वेदान्व्यस्यतीति वेदव्यासः। "कर्मण्यण्"। भीमो मीमसेन इतिवदेकदेशग्रहणम्।