पूर्वम्: ४।१।९७
अनन्तरम्: ४।१।९९
 
सूत्रम्
गोत्रे कुञ्जादिभ्यश्च्फञ्॥ ४।१।९८
काशिका-वृत्तिः
गोत्रे कुञ्जाऽदिभ्यश् च्फञ् ४।१।९८

तस्य अपत्यम् इत्येव। गोत्रसंज्ञके ऽपत्ये वाच्ये कुञ्जादिभ्यः च्फञ् प्रत्ययो भवति। इञो ऽपवादः। चकारो विशेषणार्थः व्रातच्फञोरस्त्रियाम् ५।३।११३ इति। ञकारो वृद्ध्यर्थः। कौञ्जायन्यः, कौजायन्यौ, कौञ्जायनाः। ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः। गोत्रे इति किम्? कुञ्जस्य अपत्यम् अनन्तरं कौञ्जिः। एकवचनद्विवचनयोः सतिशिष्टत्वात् ञित्स्वरेण एव भवितव्यम्। बहुवचने तु कौञ्जायनाः इति, परम् अपि ञित्स्वरं त्यक्त्वा चित्स्वर एव इष्यते। गोत्राधिकारश्च शिवादिभ्यो ऽण् ४।१।११२ इति यावत्। कुञ्ज। ब्रध्न। शङ्ख। भस्मन्। गण। लोमन्। शठ। शाक। शाकट। शुण्डा। शुभ। विपाश। स्कन्द। स्तम्भ।
न्यासः
गोत्रे कुञ्जादिभ्यश्च्फञ्। , ४।१।९८

"इञोऽपवादः" इति। अकारान्तत्वात् कुञ्जादीनाम्। "चकारो विशेषणार्थः"इति। यद्यत्र चकारो न क्रियेत ततः "व्रातच्फञोरस्त्रियाम्" ५।३।११३ इत्यत्रापि नैव क्रियते, च्फञ्प्रत्यस्याभावात्। ततश्च "वातफञोरस्त्रियाम्" इत्युच्यमाने "अ()आआदिभ्यः फञ्" ४।१।११० इत्यस्यापि ग्रहणं स्यात्। "कौञ्जायन्यः, कौञ्जायन्यौ" इति। "पूगाञ्ञ्योऽग्रामणीपूर्वात्" ५।३।११२ इत्यतः "ञ्यः" इत्यनुवत्र्तमाने "व्रातच्फञोरस्त्रियाम्" ५।३।११३ इति स्वार्थ ञ्यः। "कौञ्()जायनाः" इति। "ञ्यादयस्तद्राजा-" ५।३।११९ इति तद्राजसंज्ञकत्वात् "तद्राजस्य बहुषु" २।४।६२ इत्यादिना लुक्। किं पुनरत्र ञित्वस्वरेण भवितव्यम्? उत चित्स्वरेण? इत्यत आह-- "एकवचनद्विवचनयोः" इत्यादि। एकवचनद्विवचनयोस्तावत् सति तस्मिन् चित्स्वरे पश्चाद् ञ्ये विहिते समुपजायमानो ञित्स्वरः सतिशिष्टो भवतीति तेनैव भवितव्यम्। बहुवचने तु ञ्ये निवृत्ते प्राप्ते तं त्यक्त्वा चित्स्वर एवेष्यते। कथं पुनरिष्यमाणोऽपि स लभ्यते, चित्करणसामथ्र्यादिति चेत् न; ञित्करणसामथ्र्याद् ञित्स्वरोऽपि लभ्यते। एवं तर्हि स्वरविधौ योगविभागः करिष्यते,इदमस्ति-- "चितःट ६।१।१५७ इति; ततः "तद्ध#इतस्य" ६।१।१५८ इति, तत्र "चितः" इत्येवानुवत्र्तते। किमर्थमिदम्? परत्वात् "ञ्नित्यादिर्नित्यम्" ६।१।१९१ इत्याद्युदात्तत्वं प्राप्नोति, तद्बाधनार्थम्। ततः "कितः" ६।१।१५९ इति, कितश्च तद्धितस्यान्त उदात्तो भवति॥
बाल-मनोरमा
गोत्रे कुञ्जादिभ्यश्चफञ् १०८३, ४।१।९८

गोत्रे कुञ्ज। स्पष्टम्। इञोऽपवादः। च्फञिचञावितौ।

तत्त्व-बोधिनी
गोत्रे कुञ्जादिभ्यश्च्फञ् ९०६, ४।१।९८

गोत्रे कुञ्जा। इतः प्राक् "एकौ गोत्रे"इत्यादि सूत्रद्वयं चेत्पठ()ते तह्र्रत्रत्यं गोत्राग्रहणं त्यक्तुं शक्यमित्याहुः। च्फञो ञकारो वृद्द्यर्थः। कौञ्जायन्यः। चकारस्तु "व्रातच्फञौ"रित्यत्र विशेषणार्थः। तेन "अ()आआदिभ्यः फञ्" आ()आयन इत्यत्र ञ्यो न भवति। अत्रेदमदधेयं---कौञ्जायन्य इत्यादावेकवचने द्विवचने च ञ्यस्य ञित्त्वादाद्युदात्तत्वमेव। बहुत्वे तु ञ्यस्य लुकि च्फञश्चकारकारस्योस्तुल्यबलयोर्विरोधेसति परत्वाञ्()ञित्स्वरेणाद्युदात्तत्वे प्राप्ते भाष्यादौ "तद्धितस्य कितः" इत्यत्र योगं विभज्य "चितः"इत्यनुवर्त्त्य "तद्धितस्य चितोऽन्तोदात्तत्वम्िति व्याख्यानात् "कौञ्झायनाः"इत्यत्रान्तोदात्ततैव भवति। न चैवं हि फगेवात्रास्तु किमनेन गुरुनिर्देशेनेति वाच्यं, तथा हि सति "व्रातफकोरस्त्रिया"मिति सूत्रप्रणयनापत्त्या नाडायनादिभ्योऽपि ञ्यः स्यादिति। कुञ्ज, व्रध्न, शङ्ख, शकटेत्यादि।