पूर्वम्: ४।१।१११
अनन्तरम्: ४।१।११३
 
सूत्रम्
शिवादिभ्योऽण्॥ ४।१।११२
काशिका-वृत्तिः
शिवाऽदिभ्यो ऽण् ४।१।११२

गोत्रे इति निवृत्तम्। अतः प्रभृति सामान्येन प्रत्ययाः विज्ञायन्ते। शिवादिभ्यो ऽपत्ये अण् प्रत्ययो भवति। यथायथम् इञादीनाम् अपवादः। शैवः। प्रौष्ठः। तक्षन् शब्दो ऽत्र पठ्यते कारिलक्षणमुदीचामिञं बाधितुम्। ण्यत्प्रत्यय्स्य तु बाधो निष्यते। ताक्ष्णः, ताक्षण्यः। गङ्गाशब्दः पठ्यते तिकादिफिञा शुम्रादिढका च समावेशार्थम्। तेन त्रैरूप्यं भवति। गाङ्गः, गाङ्गायनिः , गाङ्गेयः। विपाशशब्दः पठ्यते कुञ्जादिलक्षणेन च्फञा समावेशार्थम्। वैपाशः, वैपाशायन्यः। शिव। प्रौष्ठ। प्रौष्ठिक। चण्ड। जम्भ। मुनि। सन्धि। भूरि। कुठार। अनभिम्लान। ककुत्स्थ। कहोड। लेख। रोध। खञ्जन। कोहड। पिष्ट। हेहय। खञ्जार। खञ्जाल। सुरोहिका। पर्ण। कहूष। परिल। वतण्ड। तृण। कर्ण। क्षीरह्रद। जलह्रद। परिषिक। जटिलिक। गोफिलिक। बधिरिका। मञ्जीरक। वृष्णिक। रेख। आलेखन। विश्रवण। रवण। वर्तनाक्ष। पिटक। पिटाक। तृक्षाक। नभाक। ऊर्णनाभ। जरत्कारु। उत्क्षिपा। रोहितिक। आर्यश्वेत। सुपिष्ट। खर्जूरकर्ण। मसूरकर्ण। तूणकर्ण। मयूरकर्ण। खडरक। तक्षन्। ऋष्टिषेण। गङ्गा। विपाश। यस्क। लह्य। द्रुघ। अयःस्थूण। भलन्दन। विरूपाक्ष। भूमि। इला। सपत्नी। द्व्यचो नद्याः। त् रिवेणी त्रिवणं च।
लघु-सिद्धान्त-कौमुदी
शिवादिभ्योऽण् १०२०, ४।१।११२

अपत्ये। शैवः। गाङ्गः॥
न्यासः
शिवादिभ्योऽण्। , ४।१।११२

"यथायथम्" इति। यथास्वम्। यस्य य इञादिरात्मीयप्रत्ययस्तदपदादोऽण् विधीयते। अथाण्ग्रहणं किमर्थम्, न "शिवादिभ्यः" इत्येवोच्येत? "शिवादिभ्यः" एतावत्युच्यमाने यथाविहितमिञादिरेव प्रत्ययो मा भूत्, अणेव यथा स्यादित्येवमर्थमिति चेत्; नैतदस्ति; यथाविहितमिञादीन् प्रत्ययान् प्रत्येतद्वचनमनर्थकम्; विनाप्यनेन तत्सिद्धेः। तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति। ननु चासत्यण्ग्रहणे फञः प्रकृतत्वात् तस्यैव विधिर्विज्ञायते? नैतदस्ति; यदि हि शिवादिभ्यः फञ् विधातुमिष्टः स्यात्, ततोऽ()आआदिष्वेव तेषां पाठं कुर्यात्। इदं तर्हि प्रयोजनम्-- अयमुष्टिषेणशब्दः शिवादिषु पठ()ते, तस्य "सेनान्तलक्षणकारिभ्यश्च" ४।१।१५२ इति ण्यप्रत्ययः प्राप्नोति। तत्रासत्यण्ग्रहणे पुनर्विधानमिदं तद्बाधने कृतार्थमिति ततो यथाविहितमिञेव स्यात्, नाण्; ततोऽणेव यथा स्यादित्यण्ग्रहणम्। "उदीचामिञं बाधितुम्" इति। "उदीचाम्" ४।१।१५३ इत्यनेनेञ् प्राप्नोति, ततस्तं बाधितुं तक्षन्शब्दोऽतर् पठ()ते। तथा तर्हि तक्षन्शब्दस्यात्र पाठादुदीचामिञ् बाध्यते, तथा "सेनान्तलक्षणकारिभ्यश्च" ४।१।१५२ इति यो ण्यस्तस्यापि बाधा प्राप्नोति। ततश्च "ताक्षण्यः" इति न सिध्यति? इत्याह-- "ण्यप्रत्ययस्य तु बाधो नेष्यते" (इति)। कथमनिष्यमाणमपि न भवति? सुपिष्टशब्दादिभिः साहचर्यात्। इह यस्तक्षञ्शब्दः सुपिष्टमयूरखरदूरतक्षन्नित्येवं सुपिष्टादिभिः सह पठ()ते, यथा तेषाञ्चेञपवादार्थोऽत्र पाठः, तैः साहचर्यादस्यापीञपवादार्थ एव पाठो विज्ञास्यते। तत्र शिवादीनां प्राग् भूरिशब्दादिञपवादार्थं वचनम्। भूरि, सन्धि, मुनि-- इत्येतेषां "इतश्चानिञः" ४।१।१२२ इति ढकि प्राप्ते। कुठार, अनभिम्लान-- इत्येतयोः ककुत्स्थ-- इत्येमादीनां प्राग् जरत्कारुशब्दादिञो बाधनार्थम्। जरत्कारुप्रभृतीनां प्राक् सुपिष्टशब्दात् "स्त्रीभ्यो ढक्" ४।१।१२० इति ढकि प्राप्ते। सुपिष्टादीनां प्राक् तक्षञ्शब्दादिञः। तक्षन्नित्यस्य कारिलक्षणोदीचामिञः। ऋष्टिषेणस्य सेनान्तलक्षमस्य ण्यस्य च बाधनार्थम्। गङ्गादिपाट्()शब्दयोर्यस्मिन्नप्राप्त इह पाठः स वृत्तिकारेणैव व्याख्यातः। यस्कादिभ्यः प्राग् भूमिशब्दादिञि प्राप्ते। भूमिशब्दस्य "इतश्चानिञः" ४।१।१२२ इति ढकि। इलाशब्दस्यापि "{द्व्यचः इति सूत्रम्} द्व्यचश्च" ४।१।१२१ इति ढकि। एमेव सपत्नीशब्दस्यापि "स्त्रीभ्यो ढक्" ४।१।१२० इति ढक्येव। "द्व्यचो नद्याः" इति। नदीवाचका ये द्व्यचस्तेभ्योऽण् भवति, सन्ध्या-- सान्ध्यम्, कुल्या-- कौल्यम्। ननु चात्र तन्नामिकोऽणस्त्येव? सत्यमस्ति; स तु "द्व्यचः" ४।१।१२१ इति ढका बाध्यते। तस्मात् तद्बाधनार्थं वचनम्। "त्रिवेणी त्रिवणञ्च" इति। त्रिवेणीशब्दः प्रत्ययमुत्पादयति, त्रिवणञ्चापद्यते। त्रिवेण्या अपत्यं त्रैवणः॥
बाल-मनोरमा
शिवादिभ्योऽण् १०९९, ४।१।११२

शिवादिभ्योऽण्। निवृत्तमिति। वृत्तिकैयटयोस्थोक्तत्वादिति भावः। "यूनि लु"गिति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते। तत्तु मतान्तरमित्येके। तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम्।

तत्त्व-बोधिनी
शिवादिभ्योऽण् ९१९, ४।१।११२

शिवादिभ्योऽण्। ननु विशेषविहितानिञादीन्बाधित्वाऽणेवारम्भसामथ्र्याद्भविष्यति किमनेनाऽण्ग्रहणेन। अत्राहुः----ऋषिषेणशब्दोऽत्र गणे पठ()ते, ततः प्राप्तिमिञं बाधित्वा परत्वात् "सेनान्तलक्षणे"ति ण्ये प्राप्ते इह पाठसामथ्र्याद्यथाप्राप्तप्रत्यय इञेव स्यान्न त्वण्। तथा चाऽत्राष()ण्?ग्रहणमावश्यकमित्येके। अणधिकारादणेव स्यान्नाऽन्य इत्यण्ग्रहणं स्पष्टप्रतिपत्त्यर्थमित्यन्ये। शिब, ककुत्स्थ, वतण्ड, जरत्कारु, विपाट्। तक्षन्, विश्रवण, रवण, ऋषिषेण, विरूपाक्षेत्यादि। गोत्र इति निवृत्तमिति। एतच्च वृत्तौ कैयटे च स्थितम्। यद्यपि "गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकारः"इति "यूनि लु"गिति सूत्रस्थभाष्यकैयटाभ्यां लभ्यते, तथापि तन्मतान्तरमिति भावः। एवं चेतः प्रभृत्यपत्यसामान्ये प्रत्यया भवन्तीति स्थितम्। शुभ्राद्त्वान्नित्यं ढकि प्राप्ते जरत्कारुशब्दोऽत्रणर्थं पठ()ते। जारत्कारवः। ढकि तु "ढे लोपोऽकद्र्वाः"इत्युलोपः। जारत्कारेयः। कुञ्जादित्वात् "गोत्रे कुञ्जादिभ्यः"इति नित्यं च्फञि प्राप्ते विपाट्शब्दोऽत्राणर्थं पठ()ते। वैपाशः। वैपाशायन्यः। "सेनान्तलक्षणे"ति ण्यप्रत्यये "उदीचामि"तीञि त प्राप्ते तक्षन्शब्दोऽत्राऽणर्थं पठ()ते, ण्यप्रत्ययेन समावेशोऽत्रेष्यते, न त्विञा। ताक्ष्णः। ताक्षण्यः। विश्रवणरवणशब्दावत्र पठ()ते, तौ च विश्रवःशब्दस्यादेशौ। विश्रवसोऽपत्यं--वैश्रवणः। रावणः।