पूर्वम्: ४।२।९
अनन्तरम्: ४।२।११
 
सूत्रम्
पाण्डुकम्बलादिनिः॥ ४।२।१०
काशिका-वृत्तिः
पाण्डुकम्बलादिनिः ४।२।११

पाण्डुकम्बलशब्दात् तृतीयासमर्थात् परिवृतो रथः इत्येतस्मिन्नर्थे इनिः प्रत्ययो भवति। अणो ऽपवादः। पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः। पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः। मत्वर्थीयेन एव सिद्धे वचनमणो निवृत्त्यर्थम्।
न्यासः
पाण्डुकम्बलादिनिः। , ४।२।१०

"पाण्डुकम्बली" इति। "सौ च" ६।४।१३ इति दीर्घः। "मत्वर्थीयेनैव सिद्धे" इति। यद्धि येन सम्न्ताद्वेष्टितं तत् तस्यास्ति। तस्मात् "अत इनिठनौ" ५।२।११४ इति म्तवर्थीयेनेनिना सिद्धे यत्तद्वचनं तदणो निवृत्त्यर्थम्। यदि लभ्येत, तन्नारभ्येत। यदि ह्रेतद्वचनं न स्यात्, तदा "परिवृतो रथः"४।२।९ इत्यण्प्रसज्येत्, ततश्च पाण्डुकम्बल इति स्यात्, पाण्डुकम्बलीति चेष्यते। तस्मादण्निनृत्त्यर्थमुच्यते॥
बाल-मनोरमा
पाण्डुकम्बलादिनिः ११९४, ४।२।१०

पाण्डुकम्बलादिनिः। तेनेति, परिवृतो रथ इति चानुवर्तते। इनिप्रत्यये नकारादिकार उच्चारणार्थः। ननु "अत इनिठनौ" इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह--अणो निवृत्त्यर्थमिति।