पूर्वम्: ४।२।१०
अनन्तरम्: ४।२।१२
 
सूत्रम्
द्वैपवैयाघ्रादञ्॥ ४।२।११
काशिका-वृत्तिः
द्वैपवैयाघ्रादञ् ४।२।१२

द्वीपिव्याघ्रयोर् विकरभूते चर्मणो द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथः इत्येतस्मिन्नर्थे अञ् प्रत्ययो भवति। अणो ऽपवादः। स्वरे विशेषः। द्वैपेन परिवृतो रथः द्वैपः। वैयाघ्रः।
न्यासः
द्वैपवैयाघ्रादञ्। , ४।२।११

"द्वीपिव्याघ्रयोर्विकार" इत्यादि। द्वीपिनो विकारश्चर्म, व्याघ्रस्य विकारश्चर्म-- इत्यर्थविवक्षायां "प्राणिरजताद्विभ्योऽञ्" ४।३।१५२ इत्यञ्प्रत्ययान्तत्वात् द्वैपवैयाघ्रशब्दयोः, ताभ्यामिह द्वीपिव्याघ्रविकारत्वाच्चर्मणि अभिधीयेते। चर्मणैव द्वीपिव्याघ्रविकारेण रथस्य परिवृतत्वं सम्भवति, न विकारमात्रेणेति चर्मणी इह द्वैपवैयाघ्रशब्दाभ्यां विवक्षिते इति गम्यते॥
बाल-मनोरमा
द्वैपवैयाघ्रादञ् ११९५, ४।२।११

द्वैपवैयाघ्रादञ्। तेनेति परिवृतो रथ इति चानुवर्तते। तृतीयान्ताद्द्वैपशब्दार्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः। अणोऽपवादः। स्वरे विशेषः। द्वीपिन इति। द्वीपी--व्याघ्रः, तस्य विकारश्चर्मेत्यर्थे "प्राणिरजतादिभ्यः" इत्यञि द्वैपशब्द इत्यर्थः। एवं वैयाघ्र इति। व्याघ्रस्य चर्म, वैयाघ्रम्। अञि "न य्वाभ्या"मित्यैच्। तेन परिवृतो वैयाघ्र इति भावः।