पूर्वम्: ४।२।१२५
अनन्तरम्: ४।२।१२७
 
सूत्रम्
धूमादिभ्यश्च॥ ४।२।१२६
काशिका-वृत्तिः
धूमादिभ्यश् च ४।२।१२७

धूमादिभ्यो देशवचिभ्यः प्रातिपदिकेभ्यः वुञ् प्रत्ययो भवति शैषिकः। अणादेरपवादः। धौमकः। खाण्डकः। पाथेयशब्दः पठ्यते, तस्य योपधात्वादेव वुञि सिद्धे सामर्थ्याददेशार्थं ग्रहणम्। तथा विदेहानर्तशब्दयोः जनपदलक्षणे वुञि सिद्धे ऽदेशार्थः पाठः। विदेहानां क्षत्रियाणां स्वं वैदेहकम्। आनर्तकम्। समुद्रशब्दः पठ्यते, तस्य नावि मनुष्ये च वुञिष्यते। सामुद्रिका नौः। सामुद्रको मनुस्यः। अन्यत्र न भवति, सामुद्रं जलम् इति। धूम। खण्ड। शशादन। आर्जुनाद। दाण्डायनस्थली। माहकस्थली। घोषस्थली। माषस्थली। राजस्थली। राजगृह। सत्रासाह। भक्षास्थली। मद्रकूल। गर्तकूल। आञ्जीकूल। द्व्याहाव। त्र्याहाव। संहीय। वर्वर। वर्चगर्त। विदेह। आनर्त। माठर। पाथेय। घोष। शिष्य। मित्र। वल। आराज्ञी। धर्तराज्ञी। अवयात। तीर्थ। कूलात् सौवीरेषु। समुद्रान्नावि मनुस्ये च। कुक्षि। अन्तरीप। द्वीप। अरुण। उज्जयिनी। दक्षिणापथ। साकेत।
न्यासः
धूमादिभ्यश्च। , ४।२।१२६

"अणादेरपवादः"इति। आदिशब्देन कच्छादीनां ग्रहणम्। तत्र देशवचना अवृद्धा येधूमादयस्तेभ्योऽणोऽपवादः। ये तु वृद्धास्तेभ्यश्छस्। य उदीच्यग्रामास्तेभ्योऽणः। ये बाहीकग्रामास्तेभ्यष्ठञ्ञिठयोः। "तस्य योपधत्वादेव वुञि सिद्धे" इति। "धन्वयोपधाद्()वुञ्" ४।२।१२० इत्यनेन। "जनपदलक्षणे वुञि सिद्धे" इति। "अवृद्धादपि" ४।२।१२४ इत्यादिना। "कूलात् सौवीरेषु" इति। कुलशब्दाद्()वृञ् भवति सौवीरेषु। कौलको भवति सौवीरश्चेत, कौलोऽन्यत्॥
बाल-मनोरमा
धूमादिभ्यश्च १३३२, ४।२।१२६

धूमादिभ्यश्च। "देशवाचिभ्यो वु"ञिति शेषपूरणम्।