पूर्वम्: ४।२।१२७
अनन्तरम्: ४।२।१२९
 
सूत्रम्
अरण्यान्मनुष्ये॥ ४।२।१२८
काशिका-वृत्तिः
अरण्यान् मनुस्ये ४।२।१२९

अरण्यशब्दाद् वुञ् प्रत्ययो भवति शैसिको मनुस्ये ऽभिधेये। औपसङ्ख्यानिकस्य णस्य अपवादः। आरण्यको मनुस्यः। पथ्याध्यायन्यायविहारमनुस्यहस्तिषु इति वक्तव्यम्। आरण्यकः पन्थाः। आरण्यको ऽध्यायः। आरण्यको न्यायः। आरण्यको विहारः। आरण्यको मनुष्यः। आरण्यको हस्ती। वा गोमयेसु। आरण्याः, आरण्यका गोमयाः। एतेसु इति किम्? आरण्याः पशवः।
न्यासः
अरण्यान्मनुष्ये। , ४।२।१२८

"औपसंख्यानिकस्य णस्यापवादः" इति। "अरण्याण्यः" (वा।४३७) इत्युपसंख्यानात्प्राप्तस्य। "पथ्यध्यायन्याय" इत्यादि। एषु पथ्यादिषु वुञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- "धूमादिभ्यश्च" ४।२।१२६ इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः,तेन पथ्यादिषु वुञ्भवति। "वागोमयेषु" इति। गोमयेषु वाच्येषु वा वुञ्भवतीति। स तु तस्यैव चकारस्यानुक्तसमुच्चयार्थस्यानुवृत्तेर्वक्ष्यमाणस्य विभाषाग्रहणस्योभयोः शेषभूतत्वाल्लभ्यते। यदि तर्हि वक्ष्यमाणं विभाषाग्रहणमुभयोर्योगयोः शेषभूतं पथ्यादिष्वपि विकल्पेन विधिः स्यात्? नैष दोषः; व्यवस्थितविभाषा हि सा, तेन गोमयाद्विकल्पेन विधिर्भवति, पथ्यादिषु नित्यमिति॥
बाल-मनोरमा
अरण्यान्मनुष्ये १३३४, ४।२।१२८

अरण्यान्मनुष्ये। आरण्यक इति। पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा। वा गोमयेष्विति। वार्तिकमिदम्।