पूर्वम्: ४।२।१३२
अनन्तरम्: ४।२।१३४
 
सूत्रम्
मनुष्यतत्स्थयोर्वुञ्॥ ४।२।१३३
काशिका-वृत्तिः
मनुस्यतत्स्थयोर् वुञ् ४।२।१३४

कच्छादिभ्यः इत्येव। मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ् प्रत्ययो भवति। अणो ऽपवादः। काछको मनुस्यः। काच्छकम् अस्य हसितं, जल्पितम्। काच्छिका चूडा। सैन्धवको मनुस्यः। सैन्धवनस्य हसितं, जल्पितम्। सैन्धविका चूडा। मनुष्यतत्स्थयोः इति किम्? काच्छो गौः। सैन्धवो वार्णवः।
न्यासः
मनुष्यतत्स्थयोर्वुञ्। , ४।२।१३३

बाल-मनोरमा
मनुष्यतत्स्थयोर्वुञ् १३३९, ४।२।१३३

मनुष्यतत्स्थयोर्वुञ्। कच्छादिभ्य इत्यनुवर्तते। तदाह--कच्छादीति।