पूर्वम्: ४।२।१३१
अनन्तरम्: ४।२।१३३
 
सूत्रम्
कच्छादिभ्यश्च॥ ४।२।१३२
काशिका-वृत्तिः
कच्छाऽदिभ्यश् च ४।२।१३३

देशे इत्येव। कच्छ इत्येवम् आदिभ्यो देशवाचिभ्यः अण् प्रत्ययो भवति शैसिकः। वुञादेरपवादः। काच्छः। सैन्धवः। वार्णवः। कच्छशब्दो न बहुवचनविषयः, तस्य मनुस्यतत्स्थयोर् वुञर्थः पाठः। विजापकशब्दः पठ्यते, तस्य कोपधत्वादेव अणि सिद्धे ग्रहनम् उत्तरार्थम्। कच्छ। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। कुरु। रङ्कु। अणु। खण्ड। द्वीप। अनूप। अजवाह। विजापकः। कुलून। कच्छादिः।
न्यासः
कच्छादिभ्यश्च। , ४।२।१३२

"वुञादेरपवादः" इति। आदिशब्देन ठञः। तत्र ये जनपदबहुवचनविषयास्तेभ्यो वुञः प्राप्तस्यापवादः। सिन्धुवर्णुशब्दाभ्यामोर्देशे ठञः ४।२।११८। "कच्छशब्दो न बहुवचनविषयः" इति। तेन "अवृद्धादपि" ४।२।१२४ इत्यादिना बाधकस्य वुञोऽप्राप्तावेव सामान्येनाण्सिद्ध एवेति दर्शयति। यद्येवम्, किमर्थं तस्य पाठः? इत्याह-- "तस्य" इत्यादि। उत्तरसूत्रेण वुञ् मनुष्यतस्त्थयोर्यथा स्यादित्यवमर्थः कच्छस्येह पाठः, न त्वनर्थकः। "कोपधादेवाण् सिद्धः"इति। पूर्वसूत्रेणेति। "इहग्रहणमुत्तरार्थम्" इति। उत्तरसूत्र वुञ् यथा स्यात्॥
बाल-मनोरमा
कच्छादिभ्यश्च १३३८, ४।२।१३२

कच्छादिभ्यश्च। काच्छ इति। अत्र वुञोऽपवादोऽण्। सैन्धव इति। #ओर्देशे ठञोऽपवादः।

तत्त्व-बोधिनी
कच्छादिभ्यश्च १०६०, ४।२।१३२

सैन्धव इति। "ओर्देशे"इति ठञ्प्राप्तः। वुञि सिद्धे इति। "मनुष्यतत्स्थयो"रित्यनेन।