पूर्वम्: ४।२।१३८
अनन्तरम्: ४।२।१४०
 
सूत्रम्
राज्ञः क च॥ ४।२।१३९
काशिका-वृत्तिः
राज्ञः क च ४।२।१४०

असंभवाद् देशाधिकारो न विशेषणम्। राज्ञः ककारश्च अन्तादेशो भव्ति छश्च प्रत्ययः। राजकीयम्। आदेशमात्रम् इह विधेयं, प्रत्यय्स्तु वृद्धाच् छः ४।२।११३ इत्येव सिद्धः।
न्यासः
राज्ञः क च। , ४।२।१३९

बाल-मनोरमा
राज्ञः क च १३४५, ४।२।१३९

राज्ञः क च। राजन्शब्दाच्छः स्यात्, ककारश्चान्तादेशः।