पूर्वम्: ४।२।१३
अनन्तरम्: ४।२।१५
 
सूत्रम्
स्थण्डिलाच्छयितरि व्रते॥ ४।२।१४
काशिका-वृत्तिः
स्थण्डिलाच् छयितरि व्रते ४।२।१५

स्थण्डिलशब्दात् सप्तमीसमर्थात् शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेत् व्रतं गम्यते। व्रतम् इति शास्त्रितो नियमः उच्यते। स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः। स्थाण्डिलो ब्रह्मचारी। व्रते इति किम्? स्थाण्डिले शेते ब्रह्मदत्तः।
न्यासः
स्थण्डिलाच्छयितरि व्रते। , ४।२।१४

"समुदायेन च" इत्यादिना प्रकृतिप्रत्ययोपाधित्वं व्रतस्य दर्शयति। "शास्त्रितः" शब्दः "वाचि यमो व्रते" ३।२।४० इत्यत्र व्युत्पादितः॥
बाल-मनोरमा
स्थाण्डिलाच्छयितरि ब्राते ११९८, ४।२।१४

स्थण्डिलात्। स्थण्डिलशब्दात्सप्तम्यन्ताद्व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः।

तत्त्व-बोधिनी
स्थण्डिलाच्छयितरि ब्राते ९९०, ४।२।१४

स्थण्()डिलात्। व्रतं=शास्त्रेण विहितो नियमः, तस्मिन्समुदायेन गम्ये सप्तन्यन्ताद्यथाविहितः प्रत्ययो भवति शयितर्यर्थे।