पूर्वम्: ४।२।१८
अनन्तरम्: ४।२।२०
 
सूत्रम्
क्षीराड्ढञ्॥ ४।२।१९
काशिका-वृत्तिः
क्षीराड् ढञ् ४।२।२०

क्षीरशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भवति। अणो ऽपवादः। क्षीरे संस्कृता क्षैरेयी यवागूः।
न्यासः
क्षीरादड्ढञ्। , ४।२।१९

"क्षैरेयी" इति। "टिड्ढाणञ्" ४।१।१५ इति ङीप्॥