पूर्वम्: ४।२।२०
अनन्तरम्: ४।२।२२
 
सूत्रम्
आग्रहायण्यश्वत्थाट्ठक्॥ ४।२।२१
काशिका-वृत्तिः
आग्रहायण्यश्वत्थाट् ठक् ४।२।२२

सा अस्मिन् पौर्णमासी इति सर्वम् अनुवर्तते। आग्रहायणीशब्दादश्वत्थशब्दाच् च प्रथमसमर्थात् पौर्णमास्युपाधिकादस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति। अणो ऽपवादः। आग्रहायणिको मासः, सर्धमासः, संवत्सरः। एवम् आश्वत्थिकः।
न्यासः
आग्रहायण्य�आत्थाट्ठक्। , ४।२।२१

बाल-मनोरमा
आग्रहायण्य�आत्थाट्ठक् १२०५, ४।२।२१

आग्रहायण्य()आत्थाट्ठक्। पूर्वसूत्रविषये आग्रहायणीशब्दाद()आत्थशब्दाच्च ठक् स्यादित्यर्थः अणोऽपवादः। हायनमिति। संवत्सर इत्यर्थः। "संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री"त्यमर। यस्या ऊध्र्वं संवत्सरस्यारम्भः सा पोर्णमासी आग्रहायणीत्यर्थः। तर्हि आग्रहायणेति स्यादित्यत आह--प्रज्ञादेरिति। "प्रज्ञादिभ्यश्चे"ति स्वार्थे अमि "टिड्ढे"ति ङीबित्यर्थः। अ()आत्थेनेति। अ()इआनीनक्षत्रेणेत्यर्थः। अ()आत्थ इति। नक्षत्राऽणो "लुबविषेशे " इति लुबिति भावः। ननु "विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः" इति निर्देशेन पौर्णमास्यां "लुबविशेषे" इत्यस्याऽप्रवृत्तेरुक्तत्वात्कथमिह लुबित्यत आह--निपातनादिति। तथाच पौणमास्यां लुब्नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः।