पूर्वम्: ४।२।२५
अनन्तरम्: ४।२।२७
 
सूत्रम्
अपोनप्त्रपान्नप्तृभ्यां घः॥ ४।२।२६
काशिका-वृत्तिः
अपोनप्त्रपांनप्तृभ्यां घः ४।२।२७

अपोनप्तृ अपांनप्तृ इत्येताभ्यां घः प्रत्ययो भवति सा ऽस्य देवता इत्यस्मिन् विषये। अणो ऽपवादः। अपोनप्त्रियं हविः, अपांनप्त्रियम्। अपोनपादपांनपादिति देवताया नामधेये एते। तयोस् तु पत्ययसन्नियोगेन रूपम् इदं निपत्यते।
न्यासः
अपोनप्त्रपान्नप्तृभ्यां घः। , ४।२।२६

अपोनपात्, अपान्नपादिति यद्येते देवतानामधेयेतत् कथमेतद्विलक्षणं प्रकृतिरूपं सूत्रे श्रूयते? इत्याह--"तयोस्तु प्रत्ययसन्नियोगेन" इत्यादि॥
बाल-मनोरमा
अपोनप्त्रपान्नप्तृभ्यां घः १२१०, ४।२।२६

अपोनप्त्रपांनपतृभ्यां घः। प्रत्ययसंनियोगेनेति। घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः। अत एवेति। घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः। अत्र घप्रत्ययाऽभावान्नोक्तादेशाविति भावः।

तत्त्व-बोधिनी
अपोमप्त्रपान्नप्तृभ्यां घः ९९७, ४।२।२६

उक्तं रुपमिति। "नपात्ित्यस्य "नृप्त"इति रूपमित्यर्थः।

शतरुद्राद्धश्च। शतं रुद्रा इति। शतशब्दोऽनन्तवचनः। सौमिति। "हलस्तद्धितस्ये"ति यलोपः।