पूर्वम्: ४।२।२७
अनन्तरम्: ४।२।२९
 
सूत्रम्
महेन्द्राद्घाणौ च॥ ४।२।२८
काशिका-वृत्तिः
महेन्द्राद् घाणौ च ४।२।२९

महेन्द्रशब्दात् घाणौ प्रत्ययौ भवतः, चकाराच् छश्च, सा ऽस्य देवता इत्यस्मिन् विषये। महेन्द्रो देवता अस्य महेन्द्रियम् हविः, माहेन्द्रम्, महेन्द्रीयम्।
न्यासः
महेन्द्राद्घाणौ च। , ४।२।२८

अथ "महेन्द्रादण् च" इत्येव कस्मान्नोक्तम्? चकाराद्घच्छौ भविष्यतः, एवमुच्यमाने द्वेष्यमपि विज्ञायते--अनन्तरं छ एव चकारेणात्र कृष्यत इति। तस्मात् तथा मा विज्ञायीति घग्रहणम्॥
बाल-मनोरमा
महेन्द्राद्धाऽणौ च १२१२, ४।२।२८

महेन्द्राद्धाणौ च। महेन्द्रियमिति। महेन्द्रो देवता अस्येति विग्रहः घस्य इयादेशः माहेन्द्रमिति। अणि रूपम्। महेन्द्रीयमिति। छस्य ईयादेशः।