पूर्वम्: ४।२।४३
अनन्तरम्: ४।२।४५
 
सूत्रम्
खण्डिकादिभ्यश्च॥ ४।२।४४
काशिका-वृत्तिः
खण्डिकाऽदिभ्यश् च ४।२।४५

खण्दिका इत्येवम् आदिभ्यः शब्देभ्यो ऽञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। आद्युदात्तार्थम् अचित्तार्थम् च वचनम्। खण्दिकानां ममूहः खाण्डिकम्। वाडवम्। क्षुद्रकमालवशब्दोत्र पठ्यते। क्षुद्रकाश्च मालवाश्च इति क्षत्रियद्वन्द्वः। ततः पूर्वेण एव अञि सिद्धे वचनं गोत्रवुञ् बाधनार्थम्। ननु च परत्वादञा वुञ् बाधिष्यते, न च गोत्रसमुदायो गोत्रं, न च तदन्तविधिरत्र अस्ति? एवं तर्हि एतज् ज्ञापयति वुञि पूर्वविप्रतिषेधः, समूहिकेषु च तदन्तविधिरस्ति इति। प्रत्योजनम् औपगवकं कापटवकम् इति वुञ् भवति, वानहस्तिकं गौधेनुकम् इति च तदन्तविधिः। क्षुद्रकमालवातित्येतावता योगविभागेन पूर्वविप्रतेषेधस् तदन्तविधिश्च ज्ञापितः, पुनरस्या एव नियमार्थम् उच्यते सेनासंज्ञायाम् इति। क्षुद्रकमालवात् सेनासंज्ञायाम् एव अञ् भवति। क्षौद्रकमालवी सेना। क्षौद्रकमालवमन्यत्। अञ्सिद्धिरनुदातादेः को ऽर्थः क्षुद्रकमालवात्। गोत्राद् वुञ् न च तद्गोत्रं तदन्तान् न च सर्वतः। ज्ञापकं स्यात् तदन्तत्वे तथा च अपि शलिएर् विधिः। सेनायां नियमार्थं च यथा बध्येत चाञ् वुञा। खण्दिका। वडवा। क्षुद्रकमालवात् सेनासंज्ञायाम्। भिक्षुक। शुक। उलूक। श्वन्। युग। अहन्। वरत्रा। हलबन्ध।
बाल-मनोरमा
खण्डिकादिभ्यश्च १२३५, ४।२।४४

खण्डिकादिभ्यश्च। शेषपूरणेन सूत्रं व्याचष्टे--अञ्स्यादिति। "समूहे"इति शेषः। आद्युदात्तार्थमिदम्।

तत्त्व-बोधिनी
खण्डिकादिभ्यश्च १००७, ४।२।४४

खण्डिका। आद्युदातार्थमचित्ताठ्ठको बाधनार्थं च वचनम्।