पूर्वम्: ४।२।४५
अनन्तरम्: ४।२।४७
 
सूत्रम्
अचित्तहस्तिधेनोष्ठक्॥ ४।२।४६
काशिका-वृत्तिः
अचित्तहस्तिधेनोष् ठक् ४।२।४७

अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अणञोरपवादः। अपूपानां समूहः आपूपिकम्। शाष्कुलिकम्। हास्तिकम्। धैनुकम्। धेनोरनञ इति वक्तव्यम्। आधेनवम्।
लघु-सिद्धान्त-कौमुदी
अचित्तहस्तिधेनोष्ठक् १०५४, ४।२।४६

न्यासः
अचित्तहस्तिधेनोष्ठक्। , ४।२।४६

"अचित" इति। अर्थप्रधानत्वान्निर्देशस्यार्थस्येदं ग्रहणम्, न स्वरूपस्य, तेनाचित्तवाचिभ्यष्ठग्विज्ञायत इत्याह-- "अचित्तवाचिभ्यः शब्देभ्यः" इति। हस्तिधेनुशब्दयोश्च शब्दप्रधानत्वान्निर्देशस्य स्वरूपग्रहणम्। अत एव "हस्तिधेनुशब्दाभ्याम्" इति। "{धेनोरनञ इति वक्तव्यम्-- इति वार्तिकपाठः} अधेनोरिति वक्तव्यम्" इति। धेनुशब्दादनञ्पूर्वाट्ठग् भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- वक्ष्यमाणमिहान्यतरस्यांग्रहणमुभयोरपि योगयोः शेषो विज्ञायते, व्यवस्थिविभाषा च।तेन धेनुशब्दादनञ्पूर्वादेव भवतीति, न नञ्पूर्वादिति। "आधेनवम्" इति। "उत्सादिभ्योऽञ्" ४।१।८६। ननु च धेनुशब्दस्तत्र पठ()ते, तत्कथमधेनुशब्दाद्भवतीति?तत्रापि तदन्तविधेः सम्भवात्। तत् कथं विज्ञायते? वष्कयास इति वष्कयशब्दस्य समासे प्रतिषेधात्। वष्कयशब्दाद्धि प्रत्ययविधानम्, गोवष्कयशब्दान्न प्राप्नोति,किं समासप्रतिषेधेन? इतः प्रतिषेधाद्विज्ञायते-- अस्ति तत्र तदन्तविधिरिति॥
बाल-मनोरमा
अचित्तहस्तिधेनोष्ठक् १२३७, ४।२।४६

अचित्तहस्ति। अचित्ताः=अप्राणिनः, तद्वाचिभ्यः, हस्तिशब्दाद्धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः। साक्तुकमिति। सक्तूनां समूह इति विग्रहः। "इसुसुक्तान्तात्कः" इत्युकः परत्वाट्ठस्य कः आदिवृद्धिः। हास्तिकमिति। हस्तिनां समूह इति विग्रहः। ठक् इकः। टिलोपः। आदिवृद्धिः। धैनुकमिति। धेनूनां समूह इति विग्रहः। उकः परत्वाट्ठस्य कः। आदिवृद्धिः।