पूर्वम्: ४।२।४६
अनन्तरम्: ४।२।४८
 
सूत्रम्
केशाश्वाभ्यां यञ्छावन्यतरस्याम्॥ ४।२।४७
काशिका-वृत्तिः
केशाश्वाभ्यां यञ्छावन्यतरस्याम् ४।२।४८

केश अश्व इत्येत्याभ्यां यथासङ्ख्यं यञ् छ इत्येतौ प्रत्ययौ भवतो ऽन्यतरस्यां तस्य समूहः इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्, कैशिकम्। अश्वानाम् समूहः अश्वीयम्, आश्वम्।
न्यासः
केशा�आआभ्यां यञ्छावन्यतरस्याम्। , ४।२।४७

केशशब्दादचित्तलक्षमे ठकि प्राप्ते वचनमिदम्। अ()आशब्दादप्यणि सूत्रमिदमारभ्यते। अन्यतरस्यांग्रहमाट्()ठगणावपि भवतः॥
बाल-मनोरमा
केशा�आआभ्यां यञ्छावन्यतरस्याम् १२३८, ४।२।४७

केशा()आआभ्यां। समूह इत्येव। केशाद्यञ् वा, अ()आआच्छो वेत्यर्थः। पक्षे इति। केशाद्यञभावे "अचित्ते"ति ठक्। अ()आच्छाऽभावे अणित्यर्थः। कैश्यं कैशिकमिति। केशानां समूह सति विग्रहः। क्रमेण यञ्ठकौ। अ()आईयम् आ()आमिति। क्रमेण छाऽणौ।