पूर्वम्: ४।२।४९
अनन्तरम्: ४।२।५१
 
सूत्रम्
इनित्रकट्यचश्च॥ ४।२।५०
काशिका-वृत्तिः
इनित्रकट्यचश् च ४।२।५१

खलगोरथशब्देभ्यो यथासङ्ख्यम् इनि त्र कट्यचित्येते प्रत्यया भवन्ति तस्य समूहः इत्येतस्मिन् विषये। खलिनी। गोत्रा। रथाकट्या। खलादिभ्य इनिर् वक्तव्यः। डाकिनी। कुण्डलिनी। कुटुम्बिनी। कमलादिभ्यः खण्डच् प्रत्ययो भवति। कमलखण्डम्। अम्भोजखण्डम्। कमल। अम्भोज। पद्मिनी। कुमुद। सरोज। पद्म। नलिनी। कैरविणी। कमलादिराकृतिगणः। नरकरितुरङ्गाणाम् स्कन्धच् प्रत्ययः। नरस्कन्धः। करिस्कन्धः। तुरङ्गस्कन्धः। पूर्वादिभ्यः काण्डः प्रत्ययो भवति। पूर्वकाण्डम्। तृणकाण्डम्। कर्मकाण्डम्।
न्यासः
इनित्रट�चश्च। , ४।२।५०

"खलादिभ्य इनिर्वक्तव्यः" इति वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन खलादिभ्य इनिप्रत्ययो भविष्यति। आदिशब्दश्चायं प्रकारे, खलप्रकार इत्यर्थः। किं पुनस्ते खलप्रकाराः? येब्य इनिर्दृश्यते। यदि तर्हि खलादिभ्य इनिर्भवति, वैषम्याद्यथासंख्यं न प्राप्नोति? वाक्यभेदाददोः। एकं वाक्यं यथासंख्यं न भवति, इह द्वे वाक्ये इति। इनित्रकट()चः खलगोरथेभ्यो भवन्तीत्येकं वाक्यम्; चकारश्चानुक्तसमुच्चयार्थः, तः खलादिभ्य इनिर्भवतीति द्वितीयम्। द्वितीये तु वाक्ये खलशब्दस्य तत्र प्रकारोपलक्षणत्वं वेदितव्यम्, न तु प्रकृतित्वम्॥
बाल-मनोरमा
इनित्रकट�चश्च १२४१, ४।२।५०

इनित्र। स्युरिति। इनि त्र कट()च्--एते स्युरित्यर्थः। खलिनीति। खलानां समूह इति विग्रहः। इनिप्रत्यये नकारादिकार उच्चारणार्थः। स्त्रीत्वं लोकात्। नान्तत्वान्ङीप्। गोत्रेति। गवां समूह इति विग्रहः। गोशब्दात्रः। स्त्रीत्वं लोकात्। टाप्। रथकट()एति। रथानां समूह इति विग्रहः। कठ()चि ककारस्य नेत्त्वम्, अतद्धित इत्युक्तेः स्त्रीत्वाट्टाप्।

खलादिभ्य इति। "इनित्रकट()चश्चे"ति सूत्रे इनिग्रहणमकृत्वा "गोरथात्रकट()चौ" इत्येव सूत्रं कृत्वा "खलादिभ्य इनि"रिति पृथक्कर्तव्यमित्यर्थः।