पूर्वम्: ४।२।४७
अनन्तरम्: ४।२।४९
 
सूत्रम्
पाशादिभ्यो यः॥ ४।२।४८
काशिका-वृत्तिः
पाशादिभ्यो यः ४।२।४९

पाशदिभ्यः यः प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। पाशानां समूहः पाश्या। तृण्या। पाश। तृण। धूम। वात। अङ्गार। पोत। बालक। पिटक। पिटाक। शकट। हल। नड। वन।
न्यासः
पाशादिभ्यो यः। , ४।२।४८

अचित्तलक्षणके कठि प्राप्ते वचनमिदम्॥
बाल-मनोरमा
पाशादिभ्यो यः १२३९, ४।२।४८

पाशादिभ्यो यः। समूह इत्येव। पाश्येत्यादि। पाशानां, तृणानां, धूमानां, वनानां, वातानां च समूह इति विग्रहः। स्त्रीत्वं लोकात्।