पूर्वम्: ४।२।६०
अनन्तरम्: ४।२।६२
 
सूत्रम्
अनुब्राह्मणादिनिः॥ ४।२।६१
काशिका-वृत्तिः
अनुब्राह्मणादिनिः ४।२।६२

अनुब्राह्मणशब्दातिनिः प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये। अणो ऽपवादः। ब्राह्मणसदृशो ऽयं ग्रन्थः अनुब्राह्मणम्। तदधीते अनुब्राह्मणी। अनुब्राह्मणिनौ, अनुब्राह्मणिनः। मत्त्वर्थेन अत इनिठनौ ५।२।११४ इति इनिना सिद्धम्? तत्र एतस्माट् ठन्नपि प्राप्नोति। अनभिधानान् न भविष्यति? अणो निवृत्त्यर्थं तर्हि वचनम्।
न्यासः
अनुग्राहृणादिनिः। , ४।२।६१

"ब्राआहृणसदृसोऽयं ग्रन्थोऽनुब्राआहृणम्" इति। यथार्थऽव्ययीभावं दर्शयति। ननु योऽनुब्राआहृणमधीते तस्यानुब्राआहृणमस्तीति तत्र मत्वर्थीयेनैवेनिना सिद्धम्, तत् किमर्थमिदम्? अण्बाधनार्थम्। यदीदं नोच्येत "तदधीते तद्वेद" ४।२।५८ इत्यण् प्रसज्येत॥
बाल-मनोरमा
अनुब्राआहृणादिनिः १२५३, ४।२।६१

अनुब्राआहृणादिनिः। सेषपूरणेन सूत्रं व्याचष्टे--तदधीते तद्वेदेत्यर्थे इति। इनिप्रत्यये नकारादिकार उच्चारणार्थः। तथा च नकारस्योपदेशेऽन्त्यत्वाऽभावान्नेत्संज्ञा। ननु "अत इनिठनौ" इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह--अण्बाधनार्थमिति। भाष्ये तु प्रत्याख्यातमेवेदम्।

तत्त्व-बोधिनी
अनुब्राहृणादिनिः १०१८, ४।२।६१

अण्बाधनार्थमिति। भाष्ये तु प्रत्याख्यातमेवेदं सूत्रं, तद्रीत्या त्वणिष्यत इति, अनभिधानान्नेति वा बोध्यम्।