पूर्वम्: ४।२।६१
अनन्तरम्: ४।२।६३
 
सूत्रम्
वसन्तादिभ्यष्ठक्॥ ४।२।६२
काशिका-वृत्तिः
वसन्तादिभ्यष् ठक् ४।२।६३

वसन्त इत्येवम् आदिभ्यः ठक् प्रत्ययो भवति तदधीते तद्वेद इत्यस्मिन् विषये। अणो ऽपवादः। वसन्तसहचरितो ऽयं ग्रन्थः वसन्तः। तम् अधीते वासन्तिकः। वार्षिकः। वसन्त। वर्षाशरदम्। हेमन्त। शिशिर। प्रथम। गुण। चरम। अनुगुण। अपर्वन्। अथर्वन्।
न्यासः
वसन्तादिभ्यष्टक्। , ४।२।६२

"{वसन्तसहचरितोऽयं ग्र्नथो वसन्तः-काशिका} वसन्तसहचरितो ग्रन्थो वसन्तः"इति। यो वसन्ते पठ()ते, नियोगेन यत्र च वसन्तो वण्र्यते स वसन्त सहचरितो भवति। "वर्षाशरदम्" इति। वर्षाश्च शरच्च वर्षाशरदम्। "द्वन्द्वाच्चुदषहान्तात् समाहारे" ५।४।१०६ इति टच्। समासान्तेन निर्देशः॥
बाल-मनोरमा
वसन्तादिभ्यष्ठक् १२५४, ४।२।६२

वसन्तादिभ्यष्ठक्। "तदधीते तद्वेदे"त्येव। वासन्तिक इति। वसन्तवर्णनपरो ग्रन्थो वसन्तः। तमधीते वेत्ति वेत्यर्थः। अथर्वाणमिति। अथर्वणा प्रोक्तो वेदो लक्षमया अथर्वा, तमित्यर्थः। वस्तुतस्तु प्रोक्तप्रत्ययस्य "ऋषिभ्यो लुग्वक्तव्यः" इति वचनाल्लुक्। आथर्वणिक इत्यत्र "नस्तद्धिते" इति टिलोपमाशङ्क्याह--दाण्डिनायनेति। वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः।

तत्त्व-बोधिनी
वसन्तादिभ्यष्ठक् १०१९, ४।२।६२

वसन्ता। उक्थादिष्वेव वसन्ता दीन् पठित्वा, वसन्तादिषु वा उक्थादीन्पठित्वा, अन्यतरच्छक्यमवक्तुम्। अथर्वाणमिति। अथर्वणा प्रोक्त उपचारादथर्वा। यद्वा "तेन प्रोक्ता"मित्यधिकारे---ऋषिभ्यो लुग्वक्तव्यः। वसिष्ठो वि()आआमित्रोऽनुवाक इत्युदाह्मत्य अथवणो वा। "अथर्वा", "अथर्वणः"इति भाष्योक्तेः---- साधुः।