पूर्वम्: ४।२।६७
अनन्तरम्: ४।२।६९
 
सूत्रम्
तस्य निवासः॥ ४।२।६८
काशिका-वृत्तिः
तस्य निवासः ४।२।६९

तस्य इति षष्ठीसमर्थान् निवासः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। निवसन्त्यस्मिन्निति निवासः। ऋजुनावां निवासो देशः आर्जुनावो देशः। शैबः। शुदिष्ठः।
लघु-सिद्धान्त-कौमुदी
तस्य निवासः १०६१, ४।२।६८

शिबीनां निवासो देशः शैबः॥
न्यासः
तस्य निवासः। , ४।२।६८

बाल-मनोरमा
तस्य निवासः १२६२, ४।२।६८

तस्य निवासः। "तन्नाम्नि देशे" इत्येव। तस्य निवास इत्यर्थे षष्ठ()न्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः। स्वत्ववान्विषयः, निवासस्तु वसतिमात्रं, स्वत्वाऽस्वत्वसाधारणमित्याहुः।