पूर्वम्: ४।२।७६
अनन्तरम्: ४।२।७८
 
सूत्रम्
रोणी॥ ४।२।७७
काशिका-वृत्तिः
रोणी ४।२।७८

रोणीशब्दादन् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। कूपलक्षणस्य अञो ऽपवादः। रोणी इति को ऽयं निर्देशो, यावता प्रत्ययविधौ पञ्चमी युक्ता? सर्वावस्थप्रतिपत्त्यर्थम् एवम् उच्यते। रोणीशब्दः सर्ववस्थो ऽण्प्रत्ययम् उत्पादयति, केवलस् तदन्तश्च। रौणः। आजकरोणः। सैहिकरोणः।
न्यासः
रोणी। , ४।२।७७

"कोऽयं निर्देशः"इति। कुत्सितोऽयं निर्देश इत्यर्थः। कुत्सितं तु लक्षणातिक्रान्तत्वात्। तदेव लक्षणातिक्रान्तत्वं दर्शयितुमाह "यावता"इत्यादि। सर्वावस्था च केवलस्य तदन्तस्य च प्रतिपत्तिः प्रकृतत्वेन यथा स्यादित्येवमर्थमुच्यते। यदि "रोण्याः" इत्यादिनिर्देशः क्रियेत तदा "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न" (व्या।प।८९) इति केवलादेव स्यात, न तदन्तात्। रोणीति शास्त्रानपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिहोच्यते, तदस्याः परिभाषाया अनपेक्षणादिह तदन्तापि प्रत्ययः सिद्धो भवति। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न चेदं प्रातिपदिकम्; स्त्रीप्रत्ययान्तत्वात्। अथ मतम्-- "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति" (व्या।प।२९) इति प्रातिपदिकस्य तदन्तविधेः प्रतिषिध्यमानः स्त्रीप्रत्ययान्तस्यापि प्रतिषिध्यत इति,एतच्च यत्र हि प्रातिपदिकस्य स्वरूपग्रहणं तद्विषया परिभाषेति प्राग् ज्ञापितमेतत्? एवं तर्हि तस्य ज्ञापनस्य प्रायिकत्वं दर्शयति। तेन क्वचिदस्वरूपग्रहणेऽप्येषा परिभाषा प्रवत्र्तते। तेन कुमारीमाचष्टे कुमारयतीत्यत्र "जातिष्ठवत् प्रातिपदिकस्य" (वा।८१३) इतीष्ठवद्भावः सिद्धो भवति॥
बाल-मनोरमा
रोणी १२७१, ४।२।७७

रोणी। लुप्तपञ्चमीकमिदम्। तदन्तादिति। "येन विधि" रिति सूत्रस्थभाष्यादिह प्रत्ययविधावपि तदन्तविधिरिति भावः। रौण इति। रोण्या निर्वृत्तः कूप इत्यर्थः। आजकरौण इति। अजकरोण्या निर्वृत्त इत्यर्थः। अणि "यस्ये"ति ईकारलोपः।

तत्त्व-बोधिनी
रोणी १०२८, ४।२।७७

रोणी। रोणीशब्दः प्रत्ययमुत्पादयतीत्यर्थः। तथाच फलितमाह--रोणीशब्दादिति। पञ्चम्याः सौत्रो लुगित्यन्ये। तदन्तादिति। "येन विधि"रिति सूत्रे भाष्यस्थविसेषवचनात्, विशेषणविशेष्ययोः कामचारमाश्रित्य "समासप्रत्ययविधौ प्रतिषेधः"इत्यस्य प्रत्याख्यानाद्वा तदन्तविरिति भावः।