पूर्वम्: ४।२।७५
अनन्तरम्: ४।२।७७
 
सूत्रम्
सुवास्त्वादिभ्योऽण्॥ ४।२।७६
काशिका-वृत्तिः
सुवास्त्वादिभ्यो ऽण् ४।२।७७

सुबास्तु इत्येवम् आदिभ्यः अण् प्रत्ययो भवति चातुरर्थिकः। अञ उवर्णान्तलक्षणस्य कूपलक्षणस्य च अपवादः। सुवास्तोः अदूरभवं नगरं सौवास्तवम्। वार्णवम्। अण्ग्रहणं नद्यां मतुपो बाधनार्थम्। सौवास्तवी नदी। सुवास्तु। वर्णु। भण्डु। खण्डु। सेचालिन्। कर्पूरिन्। शिखण्दिन्। गर्त। कर्कश। शटीकर्ण। कृष्ण। कर्क। कर्ङ्कधू मती। गोह्य। अहिसक्थ। वृत्।
न्यासः
सुवास्त्वादिभ्योऽण्। , ४।२।७६

"उवर्मान्तलक्षणस्य" इत्यादि। य उवर्णान्तास्तेभ्यः "ओरञ्" ४।२।७० इति प्राप्तस्याञोऽपवादः। शेषेभ्यश्च "बह्वचः कूपेषु" ४।२।७२ इत्यादिना प्राप्तस्य कूपलक्षण्स्य। अथाण्ग्रहणं किमर्थम्, सुबास्त्वादिभ्यो यताविहितमेवोच्येत। पुनर्वचनं यो विहितो न च प्राप्नोति तदर्तं विज्ञायते। अणेव च विहितो न प्राप्नोति; अपवादेन बाधित्वा।अथ स भविष्यीत्यत आह-- "अण्ग्रहणम्" इत्यादि। असति ह्रण्ग्रहणे "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्" (व्या।प।१०) इति नदीमतुपा सह सम्प्रसारणायां परत्वान्नदीपमतुप् स्यात्। अणो ग्रहणादणेव भवति। तस्मान्मतुपो बाधनार्थण्ग्रहणम्॥
बाल-मनोरमा
सुवास्त्वादिभ्योऽण् १२७०, ४।२।७६

सुवास्त्वादिभ्योऽण्। अञ इति। "ओर"ञित्यस्यापवाद इत्यर्थः। सौवास्तवमिति। अणि ओर्गुणः। वार्णवमिति। वर्णोरदूरभवमित्यर्थः। ननु "ओर"ञित्येव सिद्धे पुनर्विधिसामथ्र्यादेव तदननुवृत्तौ अणि सिद्धे पुनरण्ग्रहणं व्यर्थमित्यत आह--अण्ग्रहणमिति।