पूर्वम्: ४।२।९२
अनन्तरम्: ४।२।९४
 
सूत्रम्
ग्रामाद्यखञौ॥ ४।२।९३
काशिका-वृत्तिः
राष्ट्रावारपाराद् घखौ ४।२।९४

राष्ट्र अवारपार इत्येताभ्यां यथासङ्ख्यं घखौ इत्येतौ प्रत्ययौ भवतः। राष्ट्रियः। अवारपारीणः। विगृहीतादपि इष्यते। अवारीणः। पारीणः। विपरीताच् च। पारावारीणः। प्रकृतिविशेष उपादानमात्रेण तावत् प्रत्यया विधीयन्ते। तेषां तु जातादयो ऽर्थाः समर्थविभक्तयश्च पुरस्ताद् वक्ष्यन्ते। ग्रामाद् यखञौ ४।२।९२। ग्रामशब्दात् य खञित्येतौ प्रत्ययौ भवतः। ग्राम्यः, ग्रामीणः।
लघु-सिद्धान्त-कौमुदी
ग्रामाद्यखञौ १०७३, ४।२।९३

ग्राम्यः। ग्रामीणः॥
न्यासः
ग्रामाद्यखञौ। , ४।२।९३

वृद्धलक्षणे छे प्राप्ते वचनम्॥
बाल-मनोरमा
ग्रामाद्यखञौ १२९५, ४।२।९३

ग्रामाद्यखञौ। ग्राम्य इति। यप्रत्यये "यस्येति चे"ति लोपः। ग्रामीण इति। खञ ईनादेशः, णत्वम्।