पूर्वम्: ४।२।९०
अनन्तरम्: ४।२।९२
 
प्रथमावृत्तिः

सूत्रम्॥ शेषे॥ ४।२।९१

पदच्छेदः॥ शेषे ७।१ ४।३।१२० प्रत्ययः ? परश्च ?

अर्थः॥

अपत्यादिभ्यः चातुरर्थ-पर्यन्तेभ्यः यः अन्यः अर्थः सः शेषः। इतः अग्रे वक्ष्यमाणाः प्रत्ययाः शेषे अर्थे भवन्ति, अर्थात् इतः आरभ्य {तस्येदम् (४।३।१२०)} इति पर्यन्तं ये अर्थाः सन्ति, तेषु सर्वेषु अर्थेषु वक्ष्यमाणाः प्रत्ययाः भवन्ति। राष्ट्रावारपाराद्घखौ, इति वक्ष्यति, तत्र घखौ प्रत्ययौ सर्वेषु अर्थेषु भवतः। यथा - राष्ट्रे भवः राष्ट्रियः। राष्ट्रात् आगतः राष्ट्रियः। राष्ट्रे भक्तिः अस्य राष्ट्रियः।
काशिका-वृत्तिः
शेषे ४।२।९२

शेषे इत्यधिकारो ऽयम्। यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषे ऽर्थे ते वेदितव्याः। उपयुक्तादन्यः शेषः। अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्यो ऽन्यो ऽर्थः। शेषः। तस्य इदं विशेषा ह्यपत्यसमूहादयः, तेषु घादयो मा भूवनिति शेषाधिकारः क्रियते। किं च सर्वेषु जातादिषु घादयो यथा स्युः अनन्तरेण एवार्थादेशेन सम्बन्धित्वेन कृतार्थता मा ज्ञायि इति साकल्यार्थं शेषवचनम्। वक्ष्यति
न्यासः
शेषे। , ४।२।९१

"उपयुक्तादन्यः शेषः" इत्येतद्ग्रहणकवाक्यम्। तदेव "अपत्यादिभ्यः"इत्यादिना विवृणोति।अपत्यादयो हि चातुरथ्र्यपर्यन्ताः प्रत्ययविधौ विनियुक्ताः, तस्मात् तेभ्यो योऽन्यो जातादिरर्थः,स शेषः। ननु च निवृत्ता अपत्यादयः, तेभ्यश्चान्तरेषु जातादिषि येषु घादयस्ततोऽपत्यादिषु नैव ते प्राप्नुवन्तीति त()त्क तन्निवृत्त्यर्थेन शेषाधिकारेण? इत्य आह-- "तस्येदम्" इत्यादि। जातादिष्वर्थेषु तस्येदमित्येषोऽर्थः पठ()ते। तच्चापत्यादीनां सामान्यम्। सामान्ये च विधीयमानस्तद्विशेषेऽपि विधीयते। तदुपलक्षणत्वात् सामान्यस्य। अतस्तस्येदं विशेषत्वाज्जाताद्यन्तःपातिष्वपत्यादिषु घादयः प्राप्नुवन्ति। तस्मात् तेषु मा भूवन्निति शेषाधिकारः क्रियते। "किञ्च" इत्यादिना प्रयोजनान्तरं दर्शयति। असति हि शेषाधिकारे घादीनां प्रथमार्थेनैव सम्बन्धमनुभवतां तत्रैव कृतार्थता विज्ञायेत। तत्र द्वितीयादिष्वर्थेषु प्राग्दीव्यतीया एवाणादयः स्युः, न तु घादयः। शेषशब्दस्तूपयुक्तादन्यतया जातादीनर्थानेकीकृत्य शक्नोत्यभिधातुम्-- "सर्वत्र घादयः सिध्यन्तीति। अतः साकल्यार्थं वा शेषवचनम्। "लक्षमं चाधिकारश्च, इति। इह लक्षणस्य विधायकत्वाल्लक्ष्यतेऽनेनेति लक्षणमिति कृत्वा; उत्तरत्राधिकारः स्वरितत्वात्। तत्र यदाऽस्य लक्षणम्,चाक्षुषादयः सिध्यन्ति। यदा स्वधिकारता, तदा सर्वेषु जातादिष्वर्थेषु घादयो भवन्ति। यदि तर्हि शेष इतिलक्षणमपीदमनेनैव यथा ग्रहणादिष्वर्थेषु प्रत्ययो भवति, तथा जातादिष्वपि भविष्यतीति जाताद्यनुक्रमणमनर्थकम्? न; अपवादविधानार्थत्वात्। यानि त्वनपवादार्थानि जातनिवृत्तलब्धक्रीतकुशलाः--इत्येवमादीनि तानि शेषग्रहणस्यैव प्रपञ्चो वेदितव्यः॥
बाल-मनोरमा
शेषे १२९३, ४।२।९१

अथ शैषिकप्रकरणं निरूप्यते। शेषे। अणादय इति। "प्राग्दीव्यतोऽणित्यादिसाधारणाः प्रतयया इत्यर्थः। वतुर्भिरिति। अ()आआदिभिरिति शेषः। चतुर्दश्यामिति। कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृशयन्ते इत्यागमः। लक्षणमिति।प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः। अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदं न सिध्येदिति भावः। अधिकारश्चेति। उत्तरसूत्रेष्वनुवृत्त्यर्थः, स्वरितत्वादिति भावः। अधिकारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति। नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणामपत्यादिचतुरथ्र्यन्तादन्यत्वस्य सिद्धत्वाच्छेषाधिकारो व्यर्थ इति वाच्यं, "तस्येद"मित्यादावपत्यादिचतुरथ्र्यन्तार्थानां ग्रहणाऽभावाय तदावश्यकत्वात्। नच प्रदर्शितेषु ग्रहणाद्यर्थेषु "तस्येद"मित्येव अणादिसिद्धेः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यं, "शैषिकान्मतुवर्थीया"दित्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात्। इदंत्वेन भासमानमपत्याद्यपि न शेषः, "इदंविशेषा ह्रेते अपत्यं समूहो विकारो निवासः" इति भाष्यात्। प्रपञ्चितं चैतत् "तस्यापत्य"मित्यत्र "तस्येदमित्यपत्येऽपीत्यादिश्लोकवार्तिकव्याख्यावसरे।

तत्त्व-बोधिनी
शेषे १०३८, ४।२।९१

शेषे। लक्षणं चेति। ग्रहणक्षुण्णादिष्वर्थेषूत्तरसूत्रानुपात्तेषु अणो विधायकमित्यर्थः। ननु लक्षणं तावव्द्यर्थम्, "तस्येद"मित्यनेन चाक्षुषादीनां, "संस्कृतं भक्षाः"इत्यनेन दार्षदादीनां सिद्धेः। तथा अधिकारोऽपि व्यर्थः। तथाहि---अधिकारस्यापत्यादिचतुरर्थीपर्यन्तेष्वर्थेषु धादीनां ट()उट()उलन्तानां निवृत्तिः, जाताद्यचर्थसाकल्यं वा प्रयोजनम्। तत्र निवृत्तिस्तावन्न प्रयोजनम्। आद्र्रकशालादीनामुत्करादिपाठेन इतः प्राचीनेष्र्थेषु घादयो न प्रवत्र्तन्ते"इति ज्ञापनात्। अन्यथा "वृद्धाच्छः"इत्येव सिद्धे तत्पाठस्य वैयथ्र्यप्रसङ्गात्। नाप्यर्थसाकल्यं प्रयोजनं, जाताधिकारात्प्राक्पाठसामथ्र्यादेब तल्लाभात्। यदि संनिहिते जातार्थ एव घादयः स्युः, तदुत्तरेषु भवाद्यर्थेषु "प्राग्दीव्यतः"इति विशिष्टावधिवरिच्छन्नेर्थेषु विधीयमाना अणादय एव स्युस्तदा जाताधिकारानन्तरमेव "प्रावृषष्ठ"बित्यादिभिः सह "राष्ट्रावारपारा"दित्यदयोऽपि पठ()एरन्। तस्माव्द्यर्थमिदं सूत्रमिति चेत्। अत्रोच्यते--"शैषिकात्सरूपः शैषिको ने"ति वक्ष्यमाणार्थस्य विषयलाभाय शेषाधिकार आवश्यकः। शैषिक प्रयुक्तकार्यविशेषं ध्वनयितुं क्रियमाणः शेषाधिकार एव "शैषिकान्मतुबर्थीया"दित्यादिश्र्लोकं ज्ञापयति। एष च श्र्लोकः सन्विधौ मतुब्विधौ च भाष्ये पठितः। इह तु सन्नन्ते पठित इति तत्रैव व्याख्यास्यते। अपत्यादिष्वर्थेषु घादीनां निवृत्त्यर्थमप्यधिकार आवश्यकः। न चोक्तज्ञापकेनैव तत्सिद्धिरिति वाच्यं, ज्ञापकस्य विशेषापेक्षत्वे दोषतादवस्थ्यात्। "आद्र्रकादिभ्यो यदि छः स्यात्तर्हि चतुरथ्र्यामेवे"ति नियमस्यापि संभवाच्च एवं स्थिते चाक्षुषमित्यादिषु गृह्रमाणत्वादिप्रकारकबोधनाय विधायकत्वमपि तस्य सुवचमिति दिक्। विग्रहीतादपीत्यादि। वचनमेवेदं, सूत्रे यथासङ्ख्यप्रवृत्त्यर्थं विशिष्टोच्चारणात्।