पूर्वम्: ४।२।९३
अनन्तरम्: ४।२।९५
 
सूत्रम्
कत्त्र्यादिभ्यो ढकञ्॥ ४।२।९४
काशिका-वृत्तिः
कत्र्यादिभ्यो ढकञ् ४।२।९५

कत्रि इत्येवम् आदिभ्यो ढकञ् प्रत्ययो भवति। कात्रेयकः। औम्भेयकः। कत्रि। उम्भि। पुष्कर। मोदन। कुम्भी। कुण्डिन। नगर। वञ्जी। भक्ति। माहिष्मती। चर्मण्वती। ग्राम। उख्या। कुड्याया यलोपश्च। कत्र्यादिः।
न्यासः
कत्त्र्यादिभ्यो ढकञ्। , ४।२।९४

कत्त्र्यादिषु यद्()वृद्धं पठ()ते ततश्छे प्राप्ते शेषेभ्यस्त्वणीति योगोऽयमारभ्यते। कत्त्रिशब्दश्च तत्पुरुषः-- कुत्सितास्त्रयः, "कोः कत्" ६।३।१०० इतियोगविभागात् कद्भावः। अत एव निपातनाद्बहुव्रीहिर्वा-- कुत्सितास्त्रयो यस्याः कत्त्रिः। "कुड()आया यलोपश्च" इति। कुडज्ञाशब्दाड् ढञ् भवति यलोपश्च --कौडेयकः। ये तु "कुल्याया यलोपश्च" इति पठन्ति तेषां कौलेयकः॥
बाल-मनोरमा
कत्र्यादिभ्यो ढकञ् १२९६, ४।२।९४

कत्र्यादिभ्यो। कत्रय इति। "कुगतिप्रादयः" इति कुशब्दस्य समासः। "त्रौ चे"ति कोः कदादेशः। कात्रेयक इति। ढकञ्, ञकारस्य एयादेशः। "लोपो व्यो"रिति यलोपः। अनुवृत्तेरिति। स्वरितत्वादिति भावः। तथाच ग्रामशब्दाड्ढकञपि लभ्यते इत्यर्थः।

तत्त्व-बोधिनी
कत्त्र्यादिभ्यो ढकच् १०३९, ४।२।९४

कुत्सितास्त्रय इति। इह बहुव्रीहिरपि सुवचः। इहैव निपातनात्कोः कद्भावः। "कद्भावे त्रावुपसङ्ख्यान"मिति तु प्रत्याख्येयम्।