पूर्वम्: ४।२।९५
अनन्तरम्: ४।२।९७
 
सूत्रम्
नद्यादिभ्यो ढक्॥ ४।२।९६
काशिका-वृत्तिः
नद्यादिभ्यो ढक् ४।२।९७

नदी इत्येवम् आदिभ्यो ढक् प्रत्ययो भवति। नादेयम्। माहेयम्। पूर्वनगरीशब्दो ऽत्र पठ्यते। पौर्वनगरेयम्। केचित् तु पूर्वनगिरी इति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति, पौरेयम्, वानेयम्, गैरेयम् इति। तदुभयम् अपि दर्शनं प्रमाणम्। नदी। मही। वाराणसी। श्रावस्ती। कौशाम्बी। नवकौशाम्बी। काशफरी। खादिरी। पूर्वनगरी। पावा। मावा। साल्वा। दार्वा। दाल्वा। वासेनकी। वडवाया वृषे।
लघु-सिद्धान्त-कौमुदी
नद्यादिभ्यो ढक् १०७४, ४।२।९६

नादेयम्। माहेयम्। वाराणसेयम्॥
न्यासः
नद्यादिभ्यो ढक्। , ४।२।९६

यान्यत्रावृद्धानि तेभ्योऽणि प्राप्तेष वृद्धेभ्यस्तु वाराणसीत्येवमादिभ्यश्छे प्राप्तेऽपवादः। केषाञ्चित् "रोपधेतोः प्राचाम"४।२।१२२ इति वुञि प्राप्ते ढगारभ्यते। "पौरेयम्" इति। पुरि भवम्। वने भवं "वानेयम्"। "गैरेयम्" इति। गिरौ भवम्। "तदुभयमपि दर्सनं प्रमाणभूतम् इति। उभयथाऽप्याचार्येण शिष्याणां प्रतिपादित्वात्। गणे नदीत्येतत् स्वरूपेण ग्रहणम्, न संज्ञाग्रहणार्थम्। संज्ञाग्रहणे हि मह्रदीनां पाठोऽनर्थकः स्यात्।
बाल-मनोरमा
नद्यादिभ्यो ढक् १२९८, ४।२।९६

नद्यादिभ्यो ढक्। माहेयमिति। मही=भूमिः, तस्यां जातादीत्यर्थः। वाराणसेयमिति। वाराणस्यां जातादीत्यर्थः।