पूर्वम्: ४।२।९६
अनन्तरम्: ४।२।९८
 
सूत्रम्
दक्षिणापश्चात्पुरसस्त्यक्॥ ४।२।९७
काशिका-वृत्तिः
दक्षिणापश्चात्पुरसस् त्यक् ४।२।९८

दक्षिणा पश्चात् पुरसित्येतेभ्यः त्यक् प्रययो भवति शैषिकः। दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः।
लघु-सिद्धान्त-कौमुदी
दक्षिणापश्चात्पुरसस्त्यक् १०७५, ४।२।९७

दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः॥
न्यासः
दक्षिणापश्चात्पुरसस्त्यक्। , ४।२।९७

पश्चात्पुरसोरव्ययत्वात् साहचर्याद्दक्षिणाशब्दोऽपि "दक्षिणादाच्" ५।३।३६ इत्यजन्तमध्ययमेव गृह्रते। एवं च "अव्ययात्त्यप्" ४।२।१०३ इत्यत्र परिगणनात् त्यपः प्राप्तिर्नास्तीत्यणोऽपवादोऽयं योगः॥
बाल-मनोरमा
दक्षिणापश्चात्पुरसस्त्यक् १२९९, ४।२।९७

दक्षिणापश्चात्। आजन्तमव्ययमिति। अव्ययसाहचर्यादाजन्तं गृह्रत इति भावः। दक्षिणा, पश्चात्, पुरस्, एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः।

तत्त्व-बोधिनी
दक्षिणापश्चात्पुरसस्त्यक् १०४१, ४।२।९७

दक्षैणापश्चात्। अव्ययमिति। साहचर्यादिति भावः। एवं च "दाक्षिणात्य"इत्यत्र "सर्वनाम्नो वृत्तिमात्रे"इति पुंवद्भावशङ्कैव नास्तीति बोध्यम्। पाश्चात्त्य इति। कथं तर्हि "पश्चात्तनैः कश्चन नुद्यमानः"इति। न च दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् ट()उट()उलौ बाधेते परत्वादिति वाच्यम्। "अग्रादिपश्चा"दिति डिमचा ट()उट()उलोर्बाधस्य दुर्वारत्वात्। सत्यम्। पश्चात्तन्वन्ति पश्चात्तना इति कथंचित्समाधेयम्।