पूर्वम्: ४।३।१००
अनन्तरम्: ४।३।१०२
 
सूत्रम्
तेन प्रोक्तम्॥ ४।३।१०१
काशिका-वृत्तिः
तेन प्रोक्तम् ४।३।१०१

तेन इति तृतीयासमर्थात् प्रोक्तम् इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकर्षेण उक्तम् प्रोक्तम् इत्युच्यते, न तु कृतम्, कृते ग्रन्थे ४।३।११६ इत्यनेन गतार्थत्वात्। अन्येन कृता माथुरेण प्रोक्ता माथुरी वृत्तिः। पाणिनीयम्। आपिशलम्। काशकृत्स्नम्।
लघु-सिद्धान्त-कौमुदी
तेन प्रोक्तम् ११११, ४।३।१०१

पाणिनिना प्रोक्तं पाणिनीयम्॥
न्यासः
तेन प्रोक्तम्। , ४।३।१०१

"प्रकर्षेणोक्तम्" इति। प्रकर्षः = अतिशयः,तेन व्याख्यातं तदध्यापितं वा "प्रोक्तम्" इत्युच्यते। "न तु कृतम्" इति। न तु कृतमुत्पादितं प्रोषतमित्युच्यते। कस्मादित्याह-- "कृते ग्रन्थे" ४।३।११६ इति गतार्थत्वात्। कथं माथुरीत्यण्, यावता वृ()धाच्छेनैव भवितव्यम्? नैष दोषः; "कलापिनोऽण्" ४।३।१०८ इत्यत्राण्ग्रहणस्यान्येभ्यो भवतीत्येतत् प्रयोजनं वक्ष्यति, तेन माथुरशब्दादप्यण्भवति। "पाणिनीयम्" इति। पाणिशब्दात् "वृद्धाच्छः" ४।२।११३ इति च्छः। "आपिशलम्,कालकृत्स्नम्" इति। आपिशलिकाशकृत्स्निशब्दाभ्यां "इञश्च" ४।२।१११ इत्यण्॥
बाल-मनोरमा
तेन प्रोक्तम् १४६०, ४।३।१०१

तेन प्रोक्तम्। अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। पाणिनीयमिति। "व्याकरण"मिति शेषः। वृद्धाच्छः। प्रथमं प्रकाशितं--प्रोक्तम्। नेह--"देवदत्तेनाद्यापितम्"।

तत्त्व-बोधिनी
तेन प्रोक्तम् ११४२, ४।३।१०१

तोन प्रोक्तम्। प्रकर्षेणोक्तं प्रोक्तमित्युच्यते, न तु कृतं, "कृते ग्रन्थे"इत्यनेन गतार्थत्वात्। पाणिनिना प्रोक्तमिति। स्वयमन्येवा वा कृतं व्याकरणमध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः। प्रेति किम्()। देवदत्तेनाध्यपितं। प्रख्यातस्यैव ग्रन्थस्याध्यापनमिति नानेन प्रत्ययः।