पूर्वम्: ४।३।१०१
अनन्तरम्: ४।३।१०३
 
सूत्रम्
तित्तिरिवरतन्तुखण्डिकोखाच्छण्॥ ४।३।१०२
काशिका-वृत्तिः
तित्तिरिवरतन्तुखण्डिकौखाच् छण् ४।३।१०२

तित्तिर्यादिभ्यः शब्देभ्यः छण् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। अणो ऽपवादः। तित्तिरिणा प्रोक्तम् अधीयते तैत्तिरीयाः। वारतन्तवीयाः। खाण्दिकीयाः। औखीयाः। छन्दसि च अयम् इष्यते। तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र न भवति। शौनकादिभ्यश् छन्दसि ४।३।१०६ इत्यत्र अस्य अनुवृत्तेः छन्दो ऽधिकारविहितानां च तद्विषयता इष्यते।
न्यासः
तित्तिरिवरतन्तुखण्डिकोखाच्छणः। , ४।३।१०२

"तैत्तिरीयाः" इति। छण्प्रत्ययः, तेभ्यः "तदधीते" ४।२।५८ इत्यण्, तस्य "प्रोक्ताल्लुक्" ४।२।६३ इति लुक्। "छन्दोब्राआहृणानि च तद्विषयाणि" (४।२।६६ इति तद्विषयता। "छन्दसि" इत्यादि। कथं पुनश्चछन्दसि लभ्यते? न हि च्छन्दोग्रहणमस्तीत्याह-- "शौनकादिभ्यः" इत्यादि॥
बाल-मनोरमा
तित्तिरिवरतन्तुखण्डिकोखाच्छण् १४६१, ४।३।१०२

तित्तिरिवरतन्तु। तेन प्रोक्त"मित्येव। तित्तिरि, वरतन्तु, खण्डिक, उख-एभ्य उक्तविषये छण्स्यादित्यर्थः। इत आरभ्य "तेनैकदि"गितिपर्यन्तं प्रोक्ते वेदे भवन्ति, "शौनकादिभ्यः छन्दसी"ति छन्दोग्रहणस्य ततः पूर्व ततद उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात्। अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः, किंत्वध्येतृवेदितृप्र्तययशिरस्काणामेवेत्याह--छन्दोब्राआहृणानीति। तद्विषयतेति। अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः। तैत्तिरीया इति। प्रोक्ते वेदे छण्। ईयः। तैत्तिरीयः=शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण्। "प्रोक्ताल्लु"गिति तस्य लुगिति भावः। वारतन्तवीयाः। खाण्डिकीयाः। औखीयाः। तित्तिरिणा प्रोक्तः श्लोक" इत्यत्र तु न, छन्दसीत्यनुवृत्तेः। छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणं, तेषां सर्वशाखागतविधिवाक्यसङ्ग्रहात्मकत्वात्। काश्यप। "तेन प्रोक्त"मित्येव। छस्यापवादः।

तत्त्व-बोधिनी
तित्तिरिवरतन्तुखण्डिकोखाच्छण् ११४३, ४।३।१०२

तित्तिरिवर। अणोऽपवादः। तद्विषयतेति। "शौनकादिभ्यश्छन्दसी"त्यत्रास्यानुवृत्तिस्तित्तिरिणा प्रोक्तः श्र्लोक इत्यत्र न भवतीति भावः। तैत्तिरीयै इति। "प्रोक्ताल्लु"गित्यध्येतृप्रत्ययस्य लुक्॥ एवमग्रेऽपि।