पूर्वम्: ४।३।१०४
अनन्तरम्: ४।३।१०६
 
सूत्रम्
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु॥ ४।३।१०५
काशिका-वृत्तिः
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ४।३।१०५

प्रत्ययार्थविशेषणम् एतत्। तृतीयासमर्थात् प्रोक्ते णिनिः प्रत्ययो भवति यत् प्रोक्तं पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पास् ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। ब्राह्मणेषु तावत् भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। कल्पेषु पैङ्गी कल्पः। आरुणपराजी। पुराणप्रोक्तेषु इति किम्? याज्ञवल्कानि ब्राह्मणानि। आश्मरथः कल्पः याज्ञवल्क्यादयो ऽचिरकाला इत्याख्यानेषु वार्ता। तथा व्यवहरति सूत्रकारः। तद्विषयता कस्मान् न भवति? प्रतिपदं ब्राह्मणेसु यः प्रत्ययस् तस्य तद्विषयता विधीयते णिनेः। अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु पाठादण्। न वा ऽयं योगश् छन्दो ऽधिकारम् अनुवर्तयति, तेन कल्पेष्वपि न भवति। पुराण इति निपातनात् तुडभावः। न वा अत्यन्तबाधैव, तेन पुरातनम् इत्यपि भवति।
न्यासः
पुराणप्रोक्तेषु ब्राआहृणकल्पेषु। , ४।३।१०५

"भाल्लविनः"इति। भाल्लवः, शाट()आयनः,ऐतरेय-- इत्येतेभ्यः प्रोक्तार्थे णिनिः। तदन्तात् "तदधीते" ४।२।५८ इत्युत्पन्नस्य "पोक्ताल्लुक्" ४।२।६३ "छन्दोब्राआहमणानि" ४।२।६५ इत्यादिना तद्विषयता। "पैङ्गी" इति। "आरुणपराजी" इति। पिङ्गारुणपराजशब्दाभ्यां णिनिः। "याज्ञवल्कानि" इति। "आश्मरथः" इति। याज्ञवल्क्य()आरव्यशब्दाभ्यां गर्गादियञन्ताभ्यां "कण्वादिभ्यो गोत्रे" ४।२।५८ इत्युत्पन्नस्य, "आपत्यस्य" ६।४।१५१ इत्यादिना यलोपः। ननु याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव ब्राआहृणानि, ब्राआहृणान्तरैः पुराणप्रोक्तेस्तुल्यत्वात्? इत्याह-- "याज्ञवल्क्य" इत्यादि। आख्यानेषु ह्रेषा वात्र्ता -- याज्ञवल्क्यादयोऽपरकालाः प्रवक्तारोऽन्येभ्यः प्रवक्तृभ्यः। तथा च वस्तुत्वमनपेक्ष्य व्यवहरति सूत्रकार इत्यदोषः। "तद्विषयता कस्मान्न भवति" (इति)। "छन्दोब्राआहृणानि" ४।२।६५ इत्यादिनेति भावः। "प्रतिपदम्" इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) हि प्रतिपदं विशेषणम्। ब्राआहृणमुच्चार्य ब्राआहृणेषु यः प्रत्ययो विहितस्तस्य तद्विषयता विधीयते। तस्मात् तद्विषयतास्य न भवति। कल्पेषु तर्हि कस्मान्न भवति; यथा-- काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिन इत्यत्र? "न चायम्" इत्यादि। छन्दोऽधिकारे ये योगस्तद्विहितस्य प्रत्ययस्य तद्विषयता भवति, न चायं योगश्छन्दोऽधिकारमनुवत्र्तते;तेनैतद्विहितस्य प्रत्ययस्याध्येतृवेदितृविषयता कल्पेषु न भवति-- पैङ्गी कल्पः, आरुणपराजी कल्द इति। पुराण इति कोऽयं शब्दः, यावता "सांयचिरम्" (४।३।२३) इत्यादिना ट()उट()उलोः सन्नियोगेन तुटि कृते पुरातनमिति भवितव्यम्? इत्यत आह-- "पुराण इति निपातनात् तुडभावः (इति)। यद्येवम्, न भवति पुरातनम्? इत्याह-- "{न वा काशिका}न च" इत्यादि। ननु "बाधकान्यपि निपातनानि" (वी।प।वृ।१०९) इत्यतो भवितव्यमेव वाचकेनेति? अवाचकान्यपि (नी।प।वृ।११०)। अबाधकान्यपि भवन्ति, एतच्च "शदेरगतौ तः" ७।३।४२ इत्यत्र प्रतिपादितम्॥
बाल-मनोरमा
पुराणप्रोक्तेषु ब्राआहृणकल्पेषु १४६४, ४।३।१०५

पुराणप्रोक्तेषु। "तेन प्रोक्त"मिति, "णिनि"रिति चानुवर्तते। मन्त्रव्यतिरिक्तवेदभागा ब्राआहृणानि। बोधायनादिकल्पसूत्राणिकल्पाः। तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः। तदाह--तृतीयान्तादिति। यत्प्रोक्तमिति। सामान्याभिप्रायमेकवचनम्। प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राआहृणकल्पात्मकं चेदिति यावत्। "पुराणप्रोक्त"मित्येतद्व्याचष्टे--पुराणेनेति। ब्राआहृणे उदाहरति--भल्लु-भाल्लविन इति। भल्लु इति प्रकृतिनिर्देशः। भल्लुना पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थो प्रोक्तार्थणिनिः। भाल्लविन्शब्दादध्येत्रणो लुकि "भाल्लविन" इति रूपमिति भावः। ब्राआहृणे उदाहरणान्तरमाह--शाठ()आयन शाठ()आयनिन इति। शाठ()आयनेति प्रकृतिनिर्देशः। शाठ()आयनेन पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थे प्रोक्तार्थणिनि प्रत्यये शाठ()आयनिन्शब्दाध्येत्रणो लुकि "शाठ()आयनिन" इति रूपमित्यर्थः। कल्पे इति। "उदाह्यियते" इति शेषः। पिङ्ग-पैह्गी कल्प इति। पिङ्गेति प्रकृतिनिर्देशः। पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे णिनौ रूपम्।