पूर्वम्: ४।३।१०६
अनन्तरम्: ४।३।१०८
 
सूत्रम्
कठचरकाल्लुक्॥ ४।३।१०७
काशिका-वृत्तिः
कठचरकाल् लुक् ४।३।१०७

कठचरकशब्दाभ्यां परस्यप्रोक्तप्रत्ययस्य लुग् भवति। कठशब्दाद् वैशम्पायनान्त्तेवासिभ्यः इति णिनेः, चरकशब्दादप्यणः। कठेन प्रोक्तम् अधीयते कठाः। चरकाः। छन्दसि इत्येव। काठाः। चारकाः।
न्यासः
कठचरकाल्लुक्। , ४।३।१०७

"कठाः, चरकाः" इति। प्रोक्तप्रत्ययस्य लुकि कृते यो ह्रध्येतर्यण् भवति तस्यापि प्रोक्ताल्लुक् ४।२।६३। पूर्ववत् तद्विषयता॥
बाल-मनोरमा
कठचरकाल्लुक् १४६६, ४।३।१०७

कठचरकाल्लुक्। प्रोक्तप्रत्ययस्येति। प्रकरणलभ्यम्। कठा इति। वैशम्पायनान्तेवासित्वलक्षणणिनो लुक्। अध्येत्रणस्तु "प्रोक्ताल्लु"गिति लुक्। चराका इति। चरकेण प्रोक्तमधीयते। इत्यर्थः। प्रोक्ताणोऽनेन लुक् अध्येत्रणः प्रोक्ताल्लुक्।

तत्त्व-बोधिनी
कठचरकाल्लुक् ११४६, ४।३।१०७

कठचरकाल्लुक्। कठशब्दस्य वेशंपायनान्तेवासित्वा ण्णिनिः चरकादण्। तयोर्लुक्। छन्दसीत्येव। काठाः। चारकाः। श्र्लोकाः।