तेन इति तृतीयासमर्थादेकदिकित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। एकदिक् तुल्यदिक् समानदिकित्यर्थः। सुदाम्ना एकदिक् सौदामनी विद्युत्। हैमवती। त्रैककुदि। पैलुमूली। तेन इति प्रकृते पुनः समर्थविभक्तिग्रहणं छन्दो ऽधिकारनिवृत्त्यर्थम्। पूर्वत्र हि छन्दो ऽधिकारात् तद्विषयता साध्यते।
"तेन"इति। "तुल्यार्थैरतुलोपमाभ्याम्"
२।३।७२ इति तृतीया। "सौदामनी" इति। "अन्"
६।४।१६७ इति प्रकृतिभावाट्टिलोपाद्यभावः।
ननु च तेनेति प्रकृतमेव,
तत्किमर्थं पुनरिह तृतीया समर्थविभक्तिरुपादीयते? इत्याह-- "तेनेति प्रकृते" इत्यादि। पूर्वत्र हि तेनेति छन्दोऽधिकारसम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्माच्छन्दोऽधिकारनिवृत्तयेपुनरिह तृतीया समर्थविभक्तिरुपादीयते।
किमर्थः पुनश्छन्दोऽधिकारः पूर्वत्र क्रियते? इत्याह-- "पूर्वत्र" इत्यादि। पूर्वेषु योगेषु च्छन्दोऽधिकारात् तद्विषयता साध्यते। तस्मात् तत्र च्छन्दोऽधिकारः कत्र्तव्यः। त()स्मस्तु क्रियमाणे तन्निवृत्त्यर्थं इह च यत्न आस्थेयः छन्दस्येव प्रत्ययः स्यात्॥