पूर्वम्: ४।३।११२
अनन्तरम्: ४।३।११४
 
सूत्रम्
तसिश्च॥ ४।३।११३
काशिका-वृत्तिः
तसिश् च ४।३।११३

तसिश्च प्रत्ययो भवति तेन एकदिकित्येतस्मिन् विषये। पूर्वेण् घादिसु अणादिषु च प्राप्तेषु अयम् अपरः प्रत्ययो विधीयते। स्वरादिपाठादव्ययत्वम्। सुदामतः। हिमवत्तः। पिलुमूलतः।
न्यासः
तसिश्च। , ४।३।११३

बाल-मनोरमा
तसिश्च १४७२, ४।३।११३

तसिश्च। "तेनैकदिगि"त्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः। इकार उच्चारणार्थः। स्वरादिपाठादिति। "स्वरादिनिपातमव्यय"मिति प्रकरणे "तद्धितश्चासर्वविभक्ति"रित्यत्र "तसिलादयः" इतिपरिगणने तसेः पाछादित्यर्थः।

तत्त्व-बोधिनी
तसिश्च ११५१, ४।३।११३

तसिश्च। पूर्वोक्तविषये।