पूर्वम्: ४।३।१२२
अनन्तरम्: ४।३।१२४
 
सूत्रम्
पत्त्राध्वर्युपरिषदश्च॥ ४।३।१२३
काशिका-वृत्तिः
पत्राध्वर्युपरिषदश् च ४।३।१२३

पत्रं वाहनम्, तद्वाचिनः प्रातिपदिकातध्वर्युपरिषच्छब्दाभ्यां च अञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। अणो ऽपवादः। पत्राद् वाह्ये। अश्वस्य इदं वहनीयम् आश्वम्। औष्ट्रम्। गार्दभम्। आध्वर्यवम्। पारिषदम्।
न्यासः
पत्त्राध्वर्युपरिषदश्च। , ४।३।१२३

"पत्राद्वाह्रे" (वा।४७४) इत्यवधारणमत्र द्रष्टव्यम्-- पत्त्राद्वाह्र एवेति। अन्यत्र कस्मान्न भवत? अनभिधानात्। अथ किमर्थं न पूर्वेण सहैकयोग एव क्रियते-- "पत्त्रपूर्वपत्राध्वर्युपरिषदोऽञ्" इति? नैवं शक्यम्; एवं हि पूर्वपत्त्रपूर्वात् प्रातिपदिकादन्यतोऽपि प्रसज्येत। योगविभागे पूर्वस्मिन् योगे रथादित्यनुवृत्ते रथ एव पत्त्रपूर्वग्रहणेन विशेष्यत इति न भवत्यतिप्रसङ्गः। एकयोगे तु रथाद्यनुवृत्तौ सत्यां यथा पत्त्रपूर्वतया रथो विशेष्यते, तथा पत्त्रादिभिरपि रथ एव निशेष्यते इत्यनिष्टं स्यात्। तस्माद्योगविभाग एव न्याय्यः॥
बाल-मनोरमा
पत्राध्वर्युपरिषटश्च १४८२, ४।३।१२३

पत्राध्वर्यु। अञिति। शेषपूरणम्।

पत्रादिति। "पत्राद्बाह्र एवे"ति वक्तव्यमित्यर्थः। आ()आमिति। पत्रेत्यर्थग्रहणमिति भावः। आध्वर्यवं, पारिषदमिति। अध्वर्योरिदं परिषद इदमिति विग्रहः।