पूर्वम्: ४।३।१२३
अनन्तरम्: ४।३।१२५
 
सूत्रम्
हलसीराट्ठक्॥ ४।३।१२४
काशिका-वृत्तिः
हलसीराट् ठक् ४।३।१२४

हलसीरशब्दाभ्यां ठक् प्रत्ययो भवति तस्य इदम् इत्यस्मिन् विषये। अणो ऽपवादः। हलस्य इदं हालिकम्। सैरिकम्।
न्यासः
हलसीराट्ठक्। , ४।३।१२४

बाल-मनोरमा
हलसीराट्ठक् १४८३, ४।३।१२४

हलसीराट्ठक्। तस्येदमित्येव। हालिकं सैरिकमिति। हलस्येदं, सीरस्येगदमिति विग्रहः।