पूर्वम्: ४।३।१२५
अनन्तरम्: ४।३।१२७
 
सूत्रम्
गोत्रचरणाद्वुञ्॥ ४।३।१२६
काशिका-वृत्तिः
गोत्रचरणाद् वुञ् ४।३।१२६

गोत्रवाचिभ्यः चरणवाचिभ्यः च प्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये अणो ऽपवादः। छं तु प्रत्वाद् बाधते। गोत्रात् तावद् ग्लौचुकायनकम्। औपगवकम्। चरणाद् धर्माम्नाययोरिष्यते। काठकम्। कालापकम्। मौदकम्। पैप्पलादकम्।
न्यासः
गोत्रचरणाद्?वुञ्। , ४।३।१२६

वुनि प्रकृते वुञ्विधानं वृद्ध्यर्थम्। तच्चावृद्धा एव गोत्रचरणशब्दाः प्रयोजयन्ति, न वृद्धाः। तेषु हि वुञि वुनि वा सति न कश्चिद्विशेषः। "ग्लौचुकायनकः" इति। "प्राचामवृद्धात् फिन् बहुलम्" ४।१।१६० इति फिन्, तदन्ताद्()वुञ्। "चरणात्" इत्यादि। चरणाद्धर्माम्नाययोरेवेष्यते, नान्यत्र; अनभिधानादिति॥