पूर्वम्: ४।३।१२४
अनन्तरम्: ४।३।१२६
 
सूत्रम्
द्वंद्वाद्वुन् वैरमैथुनिकयोः॥ ४।३।१२५
काशिका-वृत्तिः
द्वन्द्वाद् वुन् वैरमैथुनिकयोः ४।३।१२५

द्वन्द्वसंज्ञाकात् वुन् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये, वैरमैथुनिकयोः प्रत्ययार्थविशषणयोः। अणो ऽपवादः। छं तु परत्वाद् बाधते। वैरे तवत् बाभ्रव्यशालङ्कायनिका। काकोलूकिका। मैथुनिकायाम् अत्रिभरद्वाजिका। कुत्सकुशिकिका। विवहनमैथुनिका। वैरस्य नपुंसकत्वे ऽप्यमी स्वभावतः स्त्रीलिङ्गाः। वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः। दैवासुरम्। राक्षो ऽसुरं वैरम्।
न्यासः
द्वन्द्वाद्?वुन् वैरमैथुनिकयोः। , ४।३।१२५

"बाभ्रण्यशालङ्कायनिका" इति। वुन्नन्तः स्वभावादेव स्त्रियां वत्र्तत इति टाप् , "प्रत्ययस्थात्" ७।३।४४ इत्यादिनेत्त्वम्॥
बाल-मनोरमा
द्वन्द्वाद्वुन्वैरमैथुनिकयोः १४८५, ४।३।१२५

द्वन्द्वाद्वुन्। वैरे मैथुनिकायां च इदन्त्वेन विवक्षिते द्वन्द्वात्षष्ठ()न्ताद्वुन्स्यादित्यर्थः। काकोलूकिकेति। काकोलूकस्य वैरमित्यर्थः। वुनि स्त्रीत्वं लोकात्। कुत्सकुशिकिकेति। कुत्सकुशिकयोर्विवाह इत्यर्थः। वुनि स्त्रीत्वं लोकात्। मिथुनं--दम्पती। तस्य कर्म मैथुनिका। मनोज्ञादित्वाद्वुञ्। स्त्रीत्वं लोकात्।

वैरे देवासुरेति। वार्तिकमिदम्। दैवासुरमिति। देवासुरयोर्वैरमित्यर्थः। वुनभावेऽण्। मैथुनिकायां तु देवासुरिकेत्येव। "द्वन्द्वे देवासुरे"ति त्वपपाठः, अत्र भाष्ये वैर इत्येव वार्तिकपाठात्। "शिशुक्रन्दे"ति सूत्रभाष्ये तु "द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः" इति पठितम्, दैवासुरम् राक्षोऽसुरमित्युदाह्मतं च। देवासुराद्यधिकृत्य कृतमाख्यानमित्यर्थः।

गोत्रचरणाद्वुञ्। गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठ()न्तादिदमित्यर्थे वुञित्यर्थः। "प्रवराध्यायप्रसिद्धमिह गोत्र"मित्यभिप्रेत्योदाहरति-औपगवकमिति। औपगवस्येदमित्यर्थः। वस्तुतस्तु औपगवः प्रवरसूत्रेषु न दृष्टः। ग्लौचुकायनकमिति वृत्त्यादौ उदाह्मतम्।

चरणादिति। चरणाद्यो वुञ्विहितः स धर्मे आम्नाये च वाच्ये भवति, नान्यत्रेत्यर्थः। काठकमिति। कठेन प्रोक्तमधीयते कठाः, तेषां धर्म आम्नायो वेत्यर्थः। आम्नायो-वेदाभ्यासः।

तत्त्व-बोधिनी
द्वन्द्वाद्वुन्वैरमैथुनिकयोः ११५६, ४।३।१२५

द्वन्द्वद्वुन्। अणोऽपवादः। छं तु परत्वाद्बाधते। काकोलूकिकेति। काकोलूकस्य वैरमित्यर्थः। "वुन्नन्तं स्त्रियाम्"। वैरमैथुनिकादिबु"निति स्त्र्यधिकारे अमरः। कुत्सकुशिकिकेति। कुत्सुकु शिकयोर्मैथुनिका। विवाहरूपः संबन्ध इत्यर्थः। मिथुनं हि दन्पती, तस्य कर्म=क्रियानिष्पादनं। मनोज्ञादित्वाद्वुञ्। वुञन्तं चेदं, स्त्रियां स्वभावात्। अत्र वदन्ति----कुत्साश्च कुशिकाश्च कुत्सुकुशिकास्तेषां मैथुनिकेत्यपि विग्रहः। इह कुत्सुश्च कुशिका चेति द्वयोरेव मैथुनिकायां वुनिति नाग्रहः कार्यः। "यूनि लुगि"ति सूत्रे कैयटेन अत्रिभरद्वाजिकेत्यादिकं प्रसङ्गादुदाह्मत्य बहुवचनान्तद्वन्द्वाद्वुनो व्याख्यातत्वादिति। सङ्घाङ्क। पूर्वस्य वुञोऽपवादः।

घोषग्रहणमपि कर्तव्यम्। घोषग्रहणिति। एवं च प्रकृतयस्तिरुआः, प्रत्ययार्थविशेषणानि चत्वारीति वैषम्याद्यथासङ्ख्यमपि न प्रवर्तते। गार्ग इति। "आपत्यस्ये"ति यलोपः। यद्यप्यङ्कलक्षणयोःल पर्यायत्वं प्रसिद्धं "कलङ्काङ्कौ लाञ्छनं च चिह्न लक्ष्म च लक्षण मित्यमरः, तथापि पृथग्ग्रहणसामथ्र्यादिह विशेषपरतेत्याह---परम्परासंबन्ध इति। यथा गवादिनिष्ठः स्वामिना गोद्वारा संबन्धः। साक्षादिति। यथा बिदानां विद्या। घोष आभीरस्थानम्। णित्त्वं ङीबर्थं, पुंवद्भावनिषेधार्थं च। बौदी विद्या यस्य बैदीविद्यः। बिदानामसाधारणी या विद्या तद्वानित्यर्थः।