पूर्वम्: ४।३।१४०
अनन्तरम्: ४।३।१४२
 
सूत्रम्
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः॥ ४।३।१४१
काशिका-वृत्तिः
मयड् वाऽ एतयोर् भाषायाम् अभक्ष्य आच्छादनयोः ४।३।१४३

प्रकृतिमात्राद् वा मयट् प्रत्ययो भवति भक्ष्याच्छादनवर्जितयोः विकारावयवयोरर्थयोर् भाषायां विषये यथायथं प्रत्ययेषु प्राप्तेषु। अश्ममयम्, आश्मनम्। मूर्वामयम्, मौर्वाम्। भाषायाम् इति किम्? बैल्वः खादिरो वा यूपः स्यात्। अभक्ष्याच्छादनयोः इति किम्? मौद्गः सूपः। कार्पासमाच्छादनम्। एतयोः इत्यनेन किं यावता विकारावयवौ प्रकृतावेव? ये विशेषप्रत्ययाः प्राणिरजतादिभ्यो ऽञ् ४।३।१५२ इत्येवम् आदयस् तद्विषये ऽपि यथा स्यात्, कपोतमयम्, कापोतम्, लोहमयम्, लौहम् इति।
लघु-सिद्धान्त-कौमुदी
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः १११५, ४।३।१४१

प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः। अश्ममयम्, आश्मनम्। अभक्ष्येत्यादि किम्? मौद्गः सूपः। कार्पासमाच्छादनम्॥
न्यासः
मयड्?वैतयोर्भाषायामभक्ष्याच्छादनयोः। , ४।३।१४१

"एतयोः" इति। "किमनेन"इत्यादि चोद्यम्। "ये विशेषप्रत्ययाः" इत्यादि परिहारः। आदिशब्देन "उष्ट्राद्()वुञ्" ४।३।१५५ इत्येवमादयो गृह्रन्ते। यदि ह्रेतयोरिति नोच्येत, ततो य इति उत्तरे विशेषाः प्रत्ययाः अञादयः तैः सह सम्प्रसारणायां परत्वात् त एव स्युः। "एतयोः" इत्युच्यमाने तु विशेषप्रत्ययेष्वपि पक्षे भवन्ति, तेन कपोतमयमित्यादि सिद्धं भवति। अथ क्रियमाणे "एतयोः"इत्येतस्मिन्, कथमवादविषये मयड्? भवति? एतयोरित्यस्य द्वितीयविधानार्थत्वान्मयट्प्रत्ययो विकारावयवयोर्भवति। एकम्-- विधानमेतयोरिति, मयड्()भवतीति-- द्वितीयम्। तत्र यद्येतदद्वितीयं विधानं तदा प्रापणार्थम्। तेन यत्रापि विशेषप्रत्ययैर्बाधितो विज्ञायते। तस्माद्वाग्रहणं कत्र्तव्यम्॥
बाल-मनोरमा
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः १५०२, ४।३।१४१

मयड्वैतयोः। अधिकारादेव "विकारावयवयोट"रिति सिद्धेरेतयोरिति वचनमुक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयडर्थमिति भाष्ये स्पष्टम्। तेन विल्वमयं वैल्वमित्यादि सिध्यतीत्यभिप्रेत्य आह--प्रकृतिमात्रादिति। सर्वस्याः प्रकृतेरित्यर्थः। अश्ममयमिति। मयटि अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वम्। नलोपः। आश्मनमिति। कल्माषाङ्घ्रिर्नाम कस्चिद्राजा तत्पत्न्यां वसिष्ठेनोत्पदितोऽश्मक इति। अश्मन्शब्दात्स्वार्थे कप्रत्ययः, तदभावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः। "अ"न्निति प्रकृतिभावान्न टिलोपः। नच विकारार्थकत्वे "अश्मनो विकारे" इति टिलोपः शङ्क्यः, तत्र पाषाणवाचनत्वेन प्रसिद्धस्याऽश्मन्शब्दस्यैव ग्रहणादिति भावः।

तत्त्व-बोधिनी
मयड्वैतयोर्भाषायामभक्ष्याच्छादानयोः ११७०, ४।३।१४१

मयड्वैतयोः। भाषायां किम्()। खादिरो यूप इति वृत्तिकारः। ननु मयटो वैकल्पिकत्वात्सिद्धमिदमिति चेत्। अत्राहुः---वेदे बह्वचः परस्य मयटोऽर्थान्तरपरत्वमेवेति तात्पर्यग्रहार्थमेवेदम्। "द्व्यचश्छन्दसी"ति सूत्रस्य "द्व्यच एवे"ति नियमार्थत्वे यद्यपीदं गतार्थं तथापि "द्व्यचश्छन्दस्येवे"ति विपरीतनियमशङ्कानिवृत्त्यर्थं भाषाग्रहणं कृतमिति। अधिकारादेव विकारावयवयोर्लाभे एतयोरिति वचनं ये विशेषप्रत्ययाः "प्राणिरजतादिभ्यो"ऽञित्येवमादयस्तद्विषयेऽपि यथा स्यादित्येवमर्थम्। कपोतमयं। लोहमयम्। इह। विकाररावयवाभ्यां सह प्रत्येकम् "अभक्ष्याच्छदनयो"रिति सम्बध्यते समासनिर्देसादतो यथासङ्ख्यं न। आश्मनमिति। "विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः"इति वचनादस्मभेदशब्दे भेदशब्दस्य लोपे आश्मन्निति नान्तमवशिष्यते। तथा कल्मषाह्घ्रे राज्ञो भार्यायां मदयन्त्यां वसिष्ठेनोत्पादितः सुतोऽश्मको नाम, तत्र संज्ञात्वद्योतकस्य कप्रत्ययस्याऽभावे अश्मन्निति नाम भवति, तस्यावयवे आश्मनं, विकारेऽप्याश्मनमित्येव भवति। न च "अश्मनो विकारे"इति टिलोपः स्यादिति वाच्यं, प्रसिद्धतरत्वेन पाषाणवाचकस्यैव तत्र ग्रहीतुमुचितत्वात्। वस्तुतस्तु "तस्येद"मिति सामान्यविवक्षायां पाषाणवाचकस्याप्यश्मन्शब्दस्याऽ‌ऽश्मनमिति भविष्यति, पैष्टी सुरेतिवत्। मौद्गः सूपः। कार्पासमिति। मुद्गशब्दो घृतादित्वादन्तोदात्तः।"कृञः पासः" इति पासप्रत्यये गुणे रपरे च कर्पसीशब्दो जातिलक्षणङीषन्तः। ताभ्यां "अनुदात्तादेश्च"इत्यञं बाधित्वा बिल्वादिचादण्।