पूर्वम्: ४।३।१५४
अनन्तरम्: ४।३।१५६
 
सूत्रम्
उष्ट्राद्वुञ्॥ ४।३।१५५
काशिका-वृत्तिः
उष्ट्राद् वुञ् ४।३।१५७

उष्ट्रशब्दाद् वुञ् प्रत्ययो विकारावयवयोरर्थ्योः। प्राण्यञो ऽपवादः। उष्ट्रस्य विकारो ऽवयवो वा औष्ट्रकः।
न्यासः
उष्ट्राद्?वुञ्। , ४।३।१५५

बाल-मनोरमा
उष्ट्राद्वुञ् १५१४, ४।३।१५५

उष्ट्राद्वुञ्। प्राण्यञ इति। "प्राणिरजतादिभ्योऽञि"त्यस्यापवाद इत्यर्थः।