पूर्वम्: ४।३।१५२
अनन्तरम्: ४।३।१५४
 
सूत्रम्
ञितश्च तत्प्रत्ययात्॥ ४।३।१५३
काशिका-वृत्तिः
ञितश् च तत्प्रत्ययात् ४।३।१५५

अञित्येव। तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः। ञिद् यो विकारावयवप्रत्ययस् तदन्तात् प्रातिपदिकातञ् प्रत्ययो भवति विकारवयवयोः एव। मयटो ऽपवादः। ओरञ् ४।२।७०, शम्याष्ट्लञ् ४।३।१४०, प्राणिरजतादिभ्यो ऽञ् ४।३।१५२, उष्ट्राद्वुञ् ४।३।१५५, एण्या ढञ् ४।३।१५७, कंसीयपरशव्ययोर् यञञौ लुक् च ४।३।१६६ इत्येते प्रत्ययाः गृह्यन्ते। दैवदारवस्य विकारो ऽवयवो वा दैवदारवम्। दाधित्थस्य दाधित्थम्। पालाशस्य पालाशम्। शामीलस्य शामीलम्। कापोतस्य कापोतम्। औष्ट्रकस्य औष्ट्रकम्। ऐणेयस्य ऐणेयम्। कांस्यस्य कांस्यम्। पारशवस्य पारशवम्। ञितः इति किम्? बैल्वमयम्। तत्प्रत्ययातिति किम्? बैदमयम्।
न्यासः
ञितश्च तत्प्रत्ययात्। , ४।३।१५३

"मयटोऽपवादः" इति। वृद्धलक्षमस्य सर्वस्य ञित्प्रत्ययान्तस्य वृद्धत्वात्।"एते प्रत्यया गृह्रन्ते" इति। ननु चैकानुबन्धपरिभाषया ष्ट्लञो ग्रहणं न प्राप्नोति? नैष दोषः; "ञितश्च" इति हि चकारस्तत्समुच्चयार्थः। तेन तस्यापि ग्रहणं भविष्यति। ओरञो ४।३।१३७ ग्रहणेन "अनुदात्तदेश्च" ४।३।१३८ "पलाशादिभ्यो वा" ४।३।१३९ इत्येतत्सूत्रग्रहणं वेदितव्यम्; अभिन्नत्वात्। य एवं "ओरञ्" ४।३।१३७ इत्यनेनाञ्विहितः स एवास्मिन् सूत्रद्वयेऽनुवत्र्तते। "दैवदारवस्य विकारोऽवयवो वा" इत्यादिना यथायोगमेषां प्रत्ययानामुदाहरणादीनि दर्शयति। "कांस्यम् पारशवम्" इति। कंसाय हितमिति "प्राक् क्रीताच्छ-" ५।१।१ कंसीयः। परशवे हितमित्युगवादित्वा ५।१।२ द्यत्। परशव्यस्य विकारोऽवयवो वेति "कंसीयपरशव्ययोर्यञञौ लुक् च" ४।३।१६६ इति यथासंख्यं यञञौ भवतः, छयतोश्च लुक्-- कांस्यम्, पारशवः; तयोर्विकारोऽवयवो वेत्येनेनाञ्। "बैल्वमयम्" इति। बिल्वशब्दो "बिल्वादिब्योऽम्" ४।३।१३४ इत्यणन्तः। ततो वृद्धलक्षमे मयडेव भवति। "वैदमयम्" इति। "अनृष" ४।१।१०४ इत्यादिनाञ्-- वैदः। भवत्ययमञ्प्रत्ययो ञित्, न तु विकारावयवलक्षमः,तेन मयडेव भवति॥
बाल-मनोरमा
ञितश्च तत्प्रत्ययात् १५१२, ४।३।१५३

ञितश्च तत्प्रत्ययात्। तयोः= विकारावयवयोः प्रत्ययः-तत्प्रत्ययः। तदाह--ञिद्य इति। तयोरेवेति। विकारावयवयोरेवेत्यर्थः। शामीलस्येति। शम्या विकारोऽवयवो वा शामीलम्। "शम्याः ष्यञ्"। शामीलस्य विकारोऽवयवो वेत्यर्थे अञि शामीलमिति भवतीत्यर्थः। "नित्यं वृद्धे"ति मयटोऽपवादः। दाधित्थमिति। दधित्थस्य विकारोऽवयवो वा दाधित्थम्। अनुदात्तादित्वादञ्। दाधित्थस्य विकारो दाधित्थम्। मयडपवादोऽञ्। बैल्वमयमिति। "बिस्वादिभ्यो"णिति बिल्वशब्दादणि बैल्वः। तस्य विकार इत्यर्थे मयडेव, न त्वञ्। अणो ञित्त्वाऽभावादिति भावः। भाष्ये तु "विकारावयवप्रत्ययान्तात्पुनस्तत्प्रत्यया अनभिधानान्ने"त्याश्रित्या सूत्रमिदं प्रत्याख्यातम्।

तत्त्व-बोधिनी
ञितश्च तत्प्रत्ययात् ११७६, ४।३।१५३

शामीलमिमि। शामीलशब्दः "शम्याः ष्ल"ञिति ष्लञन्तः। दधित्थात् "अनुदात्तादेश्चे"त्यञ्। दाधित्थस्य दाधित्थम्। बैल्वमयमिति। बिल्वशब्दोऽणन्तः।