पूर्वम्: ४।३।१५३
अनन्तरम्: ४।३।१५५
 
सूत्रम्
क्रीतवत् परिमाणात्॥ ४।३।१५४
काशिका-वृत्तिः
क्रीतवत् प्रैमाणात् ४।३।१५६

प्राग्वतेष्ठञ् ४।१।१८ इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद् विहिताः, ते विकारे ऽतिदिश्यन्ते। परिमाणात् क्रीत इव प्रत्यया भवन्ति तस्य विकारः इत्येतस्मिन् विषये। अणादीनाम् अपवादः। सङ्ख्या अपि परिमाणग्रहणेन गृह्यते, न रूढिपरिमाणम् एव। निष्केण क्रीतं नैष्किकम्। एवं निष्कस्य विकारो नैष्किकः। शतेन क्रीतं शत्यम्, शतिकम्। शतस्य विकारः शत्यः, शतिकः। साहस्रः। वतिः सर्वसादृश्यार्थः। अध्यर्धपूर्वाद् द्विगोर् लुगसंज्ञायाम् ५।१।२८ इत्येवम् आदिकम् अप्यतिदिश्यते। द्विसहस्रः, द्विसाहस्रः। द्विनिष्कः, द्विनैष्किकः।
न्यासः
क्रीतत्परिमाणात्। , ४।३।१५४

"अणादीनामपवादः" इति। आदिशब्देनाञादीनां ग्रहणम्। "संख्यापि परिमाणग्रहणेन गृह्रते" इति। कथं पुनरेतल्लभ्यते, यावता परिमाणशब्दः प्रस्थादिषु रूढः, न संख्यायाम्? नैष दोषः; यथैव हि प्रस्थादिपरिच्छेदहेतुस्तथा संख्यापि। अत उपमानात् संख्यायामपि परिमाणशब्दो वर्तिष्यते परिमाणमिव परिमाणमिति। नन्वेवं मुख्ये सति गौणग्रहणमयुक्तम्? अयमत्र दोषः -- इह हि तन्त्रेण द्वौ परिमाणशब्दावुच्चारितौ, तत्र द्वितीयं पदमुदात्तम्, तेन संख्यापि गृह्रते। "नैष्किकम्" इति। प्राग्वतेष्ठञ्" ५।१।१८। "शत्यः, शतिकः" इति। "शताच्च ठन्यतावशते" ५।१।२१। "सहरुआम्" इति। "शतमानविंशतिकसहरुआवतनादण्" ५।१।२७। "अध्यर्धपूर्व" ५।१।२८ इत्यादिना सादृशष्यार्थे वतौ सति यदिष्टं सम्पद्यते तद्दर्शयति। आदिशब्देन प्रकृत्यादिपरिग्रहः। "द्विसहरुआम्" इति। द्वयोः सहरुआयोर्विकार इति तद्धितार्थे द्विगुः। "प्राग्वतेः संख्यापूर्वपदात् तदन्तविधिरलुकि" (५।१।२० वा।) इति तदन्तविधिरभ्यनुज्ञानाद्यथा क्रीतार्थे "शतमानविंशतिसहरुआवसनात्" ५।१।२९ इति पक्षे लुग्भवति, ततेहापि। "द्विसाहरुआम्" इति। "संख्यायाः संवत्सरपूर्वस्य" ७।३।१५ इत्युत्तरपदवृद्धिः। "दविनिष्कः" इति। यथा क्रीतार्थे निष्कशब्दात् प्राग्वतेष्ठञ् ५।१।१८ भवति तस्य "द्वित्रिपूर्वान्निष्कात्" ५।१।३० इति पक्षे लुक्, तथेहापि। "द्विनैष्किकम्" इति। "परिमाणान्तस्यासंज्ञान्नाणयोः" ७।३।१७ इत्युत्तरपदवृद्धिर्भवति॥
बाल-मनोरमा
क्रीतवत्परिमाणात् १५१३, ४।३।१५४

क्रीततवत्परि। उपाधिनेति। प्रकृत्यादि विशेषणेनेत्यर्थः। नैष्किक इति। "असमासे निष्कादिभ्यः" इति क्रीते ठक्। शत्यः शतिक इति। "शताच्च ठन्यतौ" इति क्रीते ठन्यतौ।

तत्त्व-बोधिनी
क्रीतवत्परिमाणात् ११७७, ४।३।१५४

नेष्किकमिति। "तेन क्रीत"मिति ठक्। शत्यः। शतिक इति। "शताच्च ठन्यतौ"।