पूर्वम्: ४।३।१६
अनन्तरम्: ४।३।१८
 
सूत्रम्
प्रावृष एण्यः॥ ४।३।१७
काशिका-वृत्तिः
प्रावृष एण्यः ४।३।१७

प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः। ऋत्वणो ऽपवादः। प्रावृषेण्यः बलाहकः।
लघु-सिद्धान्त-कौमुदी
प्रावृष एण्यः १०८८, ४।३।१७

प्रावृषेण्यः॥
न्यासः
प्रावृष एण्यः। , ४।३।१७

अथ किमर्थं प्रत्यये मूर्धन्यः पठ()ते, न "रषाभ्याम्" (८।४।१) इत्येनैव णत्वं भविष्यति? नैवं शक्यम्, इह हि न स्यात्-- प्रावृषेणिति पदान्तत्वात्॥
बाल-मनोरमा
प्रावृष एण्यः १३६८, ४।३।१७

प्रावृष एण्यः। ऋत्वणोऽपवादः। प्रावृषेण्य इति। प्रावृट्-वर्पर्तुः। तत्र भवादिरित्यर्थः। जाते तु ठब् वक्ष्यते। प्रक्रियालाघवार्थं णकारोच्चारणम्।

तत्त्व-बोधिनी
प्रावृष एण्यः १०७७, ४।३।१७

प्रावृष एण्यः। ऋत्वणोऽपवादः। प्रवर्षतीति प्रावृट् "नहिवृती"ति दीर्घः। तत्र भवः। जाते तु ठपं वक्ष्यति। "रषाभ्यां"मिति सिद्धे प्रक्रियालाघवार्थं णकारोच्चारणमित्याहुः। किंच प्रावृषएण्यमाचक्षाणः प्रावृषेण् इत्यत्र णकारश्रवणार्थमपि तत्। ण्यन्तात्क्विपि टिलोपणिलोपयलोपाः।