पूर्वम्: ४।३।१७
अनन्तरम्: ४।३।१९
 
सूत्रम्
वर्षाभ्यष्ठक्॥ ४।३।१८
काशिका-वृत्तिः
वर्षाभ्यष्ठक् ४।३।१८

वर्षशब्दाट् ठक् प्रत्ययो भवति शैषिकः ऋत्वणो ऽपवादः। वार्षिकं वासः। वार्षिकमनुलेपनम्।
न्यासः
वर्षाभ्यष्ठक्। , ४।३।१८

अथ किमर्थं ठग्विधानम्,कालाट् (४।३।११) ठञैव सिद्धत्वात्ुभयत्रापि तदेव रूपमिति? नैवम्; ठकि सति प्रत्ययस्वरेणान्तोदात्तत्वं स्यात्, ठञि तु सति "ञ्नित्यादिर्नित्यम्" ६।१।१९१ इत्याद्युदात्तत्वम्॥
बाल-मनोरमा
वर्षाभ्यष्ठक् १३६९, ४।३।१८

वर्षाभ्यष्ठक्। तृतीयर्तौवर्षाशब्दौ नित्यं बहुवचनान्तः, "अप्सुमनःसमासिकतावर्षाणां बहुत्व"मिति लिङ्गानुशासनसूत्रात्। "स्त्रिया प्रावृट् स्त्रियां भूम्नि वर्षाः" इत्यमरः। वर्षाशब्दाजाताद्यर्थे ठगित्यर्थः। वर्षाषु साध्विति हितकारीत्यर्थः। ननु "तत्र साधु"रिति साध्वधिकारस्य शेषाधिकारबहुर्भूतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत आह--कालादिति। साध्वर्थे इति। साध्वर्थेऽपि ठगित्यर्थः। अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः।