पूर्वम्: ४।३।२७
अनन्तरम्: ४।३।२९
 
सूत्रम्
पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्॥ ४।३।२८
काशिका-वृत्तिः
पूर्वाह्णापराह्णाऽर्द्रामूलप्रदोषावस्कराद् वुन् ४।३।२८

पूर्वाह्णाऽदिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तत्र जातः ४।३।२५ इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम्। पूर्वाह्णकः। अपराह्णकः। विभाषा पूर्वाह्णापरह्णाभ्याम् ४।३।२४ इत्यस्य अपवादः। आर्द्रकः। मूलकः। नक्षत्राणः अपवादः। प्रदोषकः। निशाप्रदोषाभ्यं च ४।३।१४ इत्यस्य अपवादः। अवस्करकः। औत्सर्गिकस्याणः ४।१।७३ अपवादः। असंज्ञायां तु यथाप्राप्तं ठञादयः एव भवन्ति।
बाल-मनोरमा
पूर्वाह्णापराह्णाद्र्रामूलप्रदोषावस्कराद्वुन् १३८१, ४।३।२८

पूर्वाह्णापराह्ण। पूर्वाह्णकः अपराह्णक इति। पूर्वाह्णे अपराह्णे च जात इत्यर्थः। "विभाषा पूर्वाह्णापराह्णाभ्या"मित्यस्यापवादः। ठ्युठ्युलोष्ठञश्च विकल्पस्तु जातादन्यार्थे सावकाश इति भावः। आद्र्रकः मूलक इति। आद्र्रायां मूले च जात इत्यर्थः। ऋत्वणोऽपवादः। प्रदोषक इति। "निशाभावः। आद्र्रकः मूलक इति। आद्र्रायां मूले च जात इत्यर्थः। ञत्वणोऽपवादः। प्रदोषक इति "निशाप्रदोषाभ्या"मित्यस्यापवादः अवस्करक इति। औत्वसर्गिकस्याऽणोऽपवादः। पथः पन्थ च। पथिन्शब्दाद्वन् स्यात् प्रकृतेः पन्थादेशश्च।

बाल-मनोरमा
कृतलब्धक्रीतकुशलाः १३९२, ४।३।२८

कृतलब्ध। तत्रेत्येवेति। "तत्र जातः" इत्यतस्तत्रेत्येवानुवर्तते। "जात इति तु निवृत्तमित्यर्थः। तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः। स्नौग्घ्न इति। औत्सर्गिकोऽण्। राष्ट्रे कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम्।

तत्त्व-बोधिनी
पूर्वाह्णापराह्णाद्र्रामूलप्रदोषावस्कराद्वुन् १०८५, ४।३।२८

अद्र्राकः। मूलक इति। नक्षत्राऽणोऽपवादः। प्रदोषक इति। "निशाप्रदोषाभ्यां चे"त्यस्यापवादः। अवस्करक इति। औत्सर्गिकस्याऽणोऽपवादः। ये तु "संज्ञाया"मित्येतत् "कृतलब्धे"त्येतत्पर्यन्तमनुवर्तयन्ति, तन्मतेऽसंज्ञायां यथायथमणादयो घादयश्च बोध्याः।

तत्त्व-बोधिनी
कृतलब्धक्रीतकुशलाः १०९३, ४।३।२८

कृतलब्ध। ननु कृतक्रीत त्वे जातलब्धत्वयोव्र्याप्ये इति किमनयोग्र्रहणेने()। सत्यम्। कृतत्वक्रीतत्वप्रकारकबोधेऽपि प्रत्ययार्थं तद्ग्रहणम्। अत एव जाते लुग्भाजामपि कृते न लुक्।